3-1-72 संयसः च प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः सार्वधातुके कर्तरि श्यन्
index: 3.1.72 sutra: संयसश्च
कर्त्तरि सार्वधातुके संयसः धातोः परः श्यन् वा
index: 3.1.72 sutra: संयसश्च
कर्तरि सार्वधातुके प्रत्यये परे सम्-उपसर्गात् परस्य यस्-धातोः श्यन् विकरणप्रत्ययः विकल्पेन भवति ।
index: 3.1.72 sutra: संयसश्च
In presence of a सार्वधातुक प्रत्यय in the कर्तरि प्रयोग, the verb यस् when used with the उपसर्ग 'सम्' gets the श्यन् विकरण optionally.
index: 3.1.72 sutra: संयसश्च
सोपसर्गार्थ आरम्भः। सम्पूर्वाच् च यसेः वा श्यन् प्रत्ययो भवति। संयस्यति, संयसति।
index: 3.1.72 sutra: संयसश्च
श्यन्वा स्यात् । यस्यति । यसति । संयस्यति । संयसति । अनुपसर्गात्किम् । प्रयस्यति ।{$ {!1211 जसु!} मोक्षणे$} । जस्यति ।{$ {!1212 तसु!} उपक्षये$} ।{$ {!1213 दसु!} च$} । तस्यति । अतसत् । दस्यति । अदसत् ।{$ {!1214 वसु!} स्तम्भे$} । वस्यति । ववास । ववसतुः । न शसदद - <{SK2263}> इति निषेधः । बशादिरयमिति मते तु बेसतुः । बेसुः ।{$ {!1215 व्युष!} विभागे$} । अयं दाहे पठितः । अर्थभैदेन त्वर्ङ्गथं पुनः पठ्यते । अव्युषत् । ओष्ठ्यादिर्दन्त्यान्तोऽयं प्युस इत्यन्ये । अपकारो युस इत्यपरे ।{$ {!1216 प्लुष!} दाहे$} । अप्लुषत् । पूर्वत्र पाठः सिजर्थ इत्याहुः । तद् भ्वादिपाठेन गतार्थमिति सुवचम् ।{$ {!1217 बिस!} प्रेरणे$} । बिस्यति । अबिसत् ।{$ {!1218 कुस!} संश्लेषणे$} । अकुसत् ।{$ {!1219 बुस!} उत्सर्गे$} ।{$ {!1220 मुस!} खण्डने$} ।{$ {!1221 मसी!} परिणामे$} । परिणामे विकारः । समी इत्येके ।{$ {!1222 लुठ!} विलोडने$} ।{$ {!1223 उच!} समवाये$} । रउच्यति । उवोच । ऊचतुः । मा भवानुचत् ।{$ {!1224 भृशु!} {!1225 भ्रंशु!} अधः पतने$} । बभर्श । अभृशत् । अनिदिताम् - <{SK415}> इति नलोपः । भ्रश्यति । अभ्रशत् ।{$ {!1226 वृश!} वरणे$} । वृश्यति । अवृशत् ।{$ {!1227 कृश!} तनूकरणे$} । कृश्यति ।{$ {!1228 ञितृषा!} पिपासायाम्$} ।{$ {!1229 हृष!} तृष्टौ$} । श्यन्नङौ भौवादिकाद्विसेषः ।{$ {!1230 रुष!} {!1231 रिष!} हिंसायाम्$} । तीषसह - <{SK2340}> इति वेट् । रोषिता । रोष्टा । रेषिता । रेष्टा ।{$ {!1232 डिप!} क्षेपे$} ।{$ {!1233 कुप!} ग्रोदे$} ।{$ {!1234 गुप!} व्याकुलत्वे$} ।{$ {!1235 युप!} {!1236 रुप!} {!1237 लुप!} विमोहने$} । युप्यति । रुप्यति । लुप्यति । लोपिता । लुप्यतिः । सेट्कः । अनिट्कारिकासु लिपिसाहचर्यात्तौदादिकस्यैव ग्रहणात् ।{$ {!1238 लुभ!} गार्ध्ये$} । गार्ध्यमाकाङ्क्षा । तीषसह - <{SK2340}> इति वेट् । लोभिता । लोब्धा । लोभिष्यति । लुभ्येत् । लुभ्यात् । अलुभत् ॥ भ्वादेरवृक्तृतत्वाल्लोभतीत्यपीत्याहुः ।{$ {!1239 क्षुभ!} संचलने$} । क्षुभ्यति ।{$ {!1240 णभ!} {!1241 तुभ!} हिंसायाम्$} । क्षुभिनभितुभयो द्युतादौ क्र्यादौ च पठ्यन्ते । तेषां द्युतादित्वादङ् सिद्धः । क्त्यादित्वात्पक्षे सिज्भवत्येव । इह पाठस्तु श्यनर्थः ।{$ {!1242 क्लिदू!} आर्द्रीभावे$} । क्लिद्यति । चिक्लेदिथ । चिक्लेत्थ । चिक्लिदिव । चिक्लिद्व । चिक्लिदिम । चिक्लिद्म । क्लेदिता । क्लेत्ता ।{$ {!1243 ञिमिदा!} स्नेहने$} । मिदेर्गुणः <{SK2346}> । मेद्यति । अमिदत् । द्युतादिपाठादेवामिदत् अमेदिष्टेति सिद्धे इह पाठोऽमेदीदिति माभूदिति । द्युतादिभ्यो बहिरेवात्मनेपदिषु पाठस्तूचितः ।{$ {!1244 ञिक्ष्विदा!} स्नेहनमोचनयोः$} ।{$ {!1245 ऋधु!} वृद्धौ$} । आनर्ध । आर्धत् ।{$ {!1246 गृधु!} अभिकाङ्क्षायाम्$} । अगृधत् । वृत् । पुषादयो दिवादयश्च वृत्ताः । केचित्तु पुषादिसमाप्त्यर्थमेव वृत्करणम् ॥ दिवादिस्तु भ्वादिवदाकृतगणः । तेन क्षीयते । मृग्यतीत्यादिसिद्धिरित्याहुः ॥ इति दिवादयः । इति तिङन्तदिवादिप्रकरणम् ।
index: 3.1.72 sutra: संयसश्च
यसुँ (प्रयत्ने) अयं दिवादिगणस्य धातुः । सम्-उपसर्गपूर्वकस्य यस्-धातोः दिवादिभ्यः श्यन 3.1.69 इत्यनेन श्यन्-प्रत्यये प्राप्ते वर्तमानसूत्रेण सः विकल्प्यते । यथा - संयसति, संयस्यति ।
ज्ञातव्यम् - अन्यः उपसर्गः अस्ति चेत् श्यन्-प्रत्ययः नित्यमेव भवति । यथा - आयस्यति, प्रयस्यति ।
index: 3.1.72 sutra: संयसश्च
संयसश्च - संयसश्च । सूत्रद्वमिदम् । श्यन् वा स्यादिति । शेषपूरणमिदम् । 'दिवादिभ्यः श्यन्' इत्यतो,वा भ्राशे॑त्यतश्च तदनुवृत्तेरिति भावः । अनुपसर्गाद्यसः श्यन्वा स्यादिति प्रथमसूत्रार्थः । सोपसर्गात्तु नित्य एव श्यन्, अनुपसर्गादिति पर्युदासात् । संपूर्वाद्यसेर्नित्यमेव श्यनः प्राप्तौ द्वितीयसूत्रम् । रव्युष विभागे । अयमिति । दिवादिगण एव पुषादिभ्यः प्रागयं धातुः पठित इत्यर्थः । पौनरुक्त्यमाशङ्क्याअह — अर्थबेदेन त्वङर्थं पठते इति । विभागात्मके अर्थविशेषे एव पुषाद्यङर्थमिह पुनः पाठ #इत्यर्थः । अव्युषदिति । 'व्युष दाहे' इति पूर्वं पठितस्य तु सिजेव । अव्योषीत् । ओष्ठआदिरिति । दन्त्योष्ठआदिर्दन्त्योष्मान्तोऽयमिति केचिन्मन्यन्त इत्यर्थः । अयकार इति । दन्तोष्ठआदिर्दन्त्योष्मान्तो यो दातुरुक्तः स एवायं यकाररहित इत्यन्ये मन्यन्त इत्यर्थः ।अयकार॑मिति पाठे क्रियाविशेषणम् । प्लुष दाहे । ननु दिवादिगणे परस्मैपदिषु पुषादिभ्यः प्रागस्य पाठः क्वचित् दृस्यते तत्र पौनरुक्त्यशङ्कां परिहरति — पूर्वत्र पाठः सिजर्थ इति.पुषादावेव पाठे सति अङेव श्रूयेत नतु सिच् । पुषादेः प्रागपि पाठे तु तस्य अङभावात्सिच् श्रूयेत । तथा च सिचः कदाचिच्छ्रवणार्थः पूर्वं पाठ इत्यर्थः । आहुरित्यस्वरसोद्भावनम् । तद्बीजं दर्शयति — तद्भ्वादीति । तत् = दिवादिगणे पुषादिभ्यः पूर्वमस्य पठनं, भ्वादिपाठेनैव संपन्नप्रयोजनकमिति सुष्ठु वक्तुं शक्यमित्यर्थः । एवं च भ्वादिपाठाच्छब्विकरमो, लुङि सिचः श्रवणं च सिध्यति । पुषादौ पाठात्तु श्यन्विकरणः, अङ् च सिध्यति । अतो दिवादिगणे पुषादिभ्यः प्रागस्य पाठो व्यर्थ एवेति भावः । एतदेवाभिप्रेत्य मूले दिवादिगणे पुषादिगणात्प्राक् 'प्लुष दाहे' इति न पठितमिति बोध्यम् । मसी परिणामे इति । ईदित्त्वंश्वीदितः॑इत्येतदर्थम् । मस्यति । समी इत्येके इति । सम्यति । भृशु भ्रंशु । द्वितीयधातोराह -अनिदितामिति । युप रुप लुप । धातुवृत्त्यादिविरोधादुदित्पाठो लेखकप्रमादायातः । इह पाठस्त्विति । क्षुभिनभितुभीनां इह दिवादिगणे पाठस्य श्यनेव प्रयोजनमित्यर्थः । वस्तुतस्तु पुषादेः प्रागेव एषां त्रयाणां पाठो युक्त इति भावः । ञि मिदा । अमिददिति । ननु भ्वाद्यन्तर्गणे द्युतादौ 'ञि मिदा स्नेहने' इत्यात्मनेपदिषु पठितः । लुङि तुद्युद्भ्यो लुङी॑त्यत्र परस्मपैदविकल्प उक्तः । द्युताद्यङ् तु परस्मैपद एव, न तु तङि । एवं च द्यातादिपाठादेव परस्मैपदपक्षे अङि अमिददिति, तङ#इ तु अङभावे अमेदिष्टेति सिद्धम् । तथा च पुषादावस्य पाठो व्यर्थः । तद्बहिर्दिवादौ पाठादेव श्यन्सिद्धेरित्याशङ्क्ये — द्युतादिपाठादेवेत्यादिना, सिद्धे इत्यन्तेन । तामिमां शङ्कां परिहरति — इह पाठोऽमेदीदिति मा भूदितीति । पुषादावस्य पाठोऽमेदीदिति व्यावृत्त्यर्थ इत्यर्थः । पुषादिभ्यः प्रागेव दिवादावस्य पाठे तु तस्माल्लुङि अङसंभवादमेदीदिति स्यादिति भावः । रनन्वेवं सति भवाद्यन्तर्गणे द्युतादावस्य पाठो व्यर्थः, द्यातादिभ्यो बहिरेवात्मनेपदिषु पठताम् । एवं च अमेदिष्टेति सिद्धम् । इह पुषादौ पाठात्तु अमिददिति सिद्धमित्याशङ्क्येष्टापत्त्या परिहरति — बहिरेवेति । 'सूचितः' इतिपाठे तु सुतरामुचित इति व्याख्येयम् । ञि क्ष्विदेत्यादि । व्यक्तम् । इति दिवादयः ।॥ इति बालमनोरमायाम् दिवादयः॥ *अथ द्वन्द्वः ।***
index: 3.1.72 sutra: संयसश्च
संयसश्च॥ इह'समः' इत्येवास्तु,'यसः' इत्यनुवर्तिष्यते,'षम ष्टम् वेक्लव्ये' इत्यस्य ग्रहणशङ्कानिवृत्यर्थ तु'संयसः' इत्युक्तम्। एवं तर्हि'समो यसः' , ठनुपसर्गाच्चऽ इत्यस्तु॥