3-1-65 तपः अनुतापे च प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः लुङि च्लेः चिण् ते कर्मकर्तरि न
नेति वर्तते। <<तप सन्तापे>> अस्मात् परस्य च्लेश्चिणादेशो न भवति कर्मकर्तरि अनुतापे च। अनुतापः पश्चात्तापः। तस्य ग्रहणमकर्मकर्त्रर्थम्, तत्र हि भावकर्मणोरपि प्रतिषेधो भवति। अतप्त तपस्तापसः। अन्ववातप्त पापेन कर्मणा॥
तपश्चलेश्चिण्न स्यात्कर्मकर्तर्यनुतापे च । अन्वतप्त पापेन । पापं कर्तृ । तेनाभ्याहत इत्यर्थः । कर्मणि लुङ् । यद्वा पापेन पुंसा कर्त्रा अशोचीत्यर्थः । घुमास्था-<{SK2462}> इतीत्वम् । दीयते । धीयते । आदेचः-<{SK2370}> इत्यत्राशितीति कर्मधारयादित्संज्ञकशकारादौ निषेधः । एष आदिशित्त्वाभावान्न तस्मिन् आत्वम् । जग्ले ॥
तपश्च्लेश्चिण् न स्यात् कर्मकर्तर्यनुतापे च। अन्वतप्त पापेन। घुमास्थेतीत्त्वम्। दीयते। धीयते। ददे॥
तपोऽनुतापे च॥ कर्मकर्तरीति।'तपस्तपः कर्मकस्यैव' इति यत्र कर्मवद्भावोविहितः। तत्र भावकर्मणोरपीति। अपिशब्दात्'कर्मवत्कर्मणा' इति यत्र कर्मवद्भावोऽतिदिष्टस्तत्रापि भवति। अतप्त तपस्तापस इति। अस्यार्थम्'तपस्तपः कर्मकस्यैव' इत्यत्र वृत्तिकार एव वक्ष्यति। अन्ववातप्त पापेनेति। पापेनेति पूर्व यत्पापं कर्म कृतं तेन पश्चातप्तोऽभ्याहत इत्यर्थः। शुद्धे कर्मणि लकारः, पापेनेति कर्तरि तृतीया। कर्माविवक्षायान्तु शोकार्थे वा तपौ बावे लकारः, पापेनेति हेतौ तृतीया। यदाभ्याहननार्थस्य कर्मकर्ता विवक्ष्यते, तदा कर्मवत्कर्मणेत्यतिदेशादात्मनेपदम्, तदापि हेतौ तृतीया॥