सह सुपा

2-1-4 सह सुपा आ कडारात् एका सञ्ज्ञा सुप् समासः

Sampurna sutra

Up

index: 2.1.4 sutra: सह सुपा


सुपा सह समासः

Neelesh Sanskrit Brief

Up

index: 2.1.4 sutra: सह सुपा


सुबन्तस्य समर्थसुबन्तेन सह समासः भवति ।

Neelesh English Brief

Up

index: 2.1.4 sutra: सह सुपा


A समास is formed when one सुबन्त combines with another related सुबन्त.

Kashika

Up

index: 2.1.4 sutra: सह सुपा


सुपिति वर्तते। सुपिति सह इति सुपा इति च त्रयमपि अधिकृतं वेदितव्यम्। यदित ऊर्ध्वमनुक्रमिष्यामः, तत्र इदमुपस्थितं द्रष्टव्यम्। वक्ष्यति द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः 2.1.24 इति। द्वितीयान्तं श्रितादिभिः सह समस्यते, कष्टं श्रितः कष्टश्रितः। सहग्रहणं योगविभागार्थम्, तिङापि सह यथा स्यात्। अनुव्यचलत्। अनुप्रावर्षत्।

Siddhanta Kaumudi

Up

index: 2.1.4 sutra: सह सुपा


सह इति योगो विभज्यते । सुबन्तं समर्थेन सह समस्यते । योगविभागस्येष्टसिद्ध्यर्थत्वात्कतिपयतिङन्तोत्तरपदोऽयं समासः । स च छन्दस्येव । पर्यभूषयत् । अनुव्यचलत् । सुपा सुप्सुपा सह समस्यते । समासत्वात्प्रातिपदिकत्वम् ॥

Laghu Siddhanta Kaumudi

Up

index: 2.1.4 sutra: सह सुपा


सुप् सुपा सह वा समस्यते ॥ समासत्वात्प्रातिपदिकत्वेन सुपो लुक् । परार्थाभिधानं वृत्तिः । कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः । वृत्त्यर्थावबोधकं वाक्यं विग्रहः । स च लौकिकोऽलौकिकश्चेति द्विधा । तत्र पूर्वं भूत इति लौकिकः । 'पूर्व अम् भूत सु' इत्यलौकिकः । भूतपूर्वः । भूतपूर्वे चरडिति निर्देशात्पूर्वनिपातः । इवेन समासो विभक्त्यलोपश्च (वार्त्तिकम्) । वागर्थो इव वागर्थाविव ॥ इति केवलसमासः ॥ १ ॥

Balamanorama

Up

index: 2.1.4 sutra: सह सुपा


सह सुपा - सह सुपा । 'सुबामन्त्रिते' इत्यतःसु॑बित्यनुवर्तते । सुबन्तं सुबन्तेन सहोच्चारितं समाससंज्ञं भवतीति फलति । एवं सतिपर्यभूषय॑दित्यादौ सुबन्तस्य तिङन्तेन समासो न स्यात् । तत्राह — सहेति योगो विभज्यत इति । समाससंज्ञायां अन्वर्थत्वादेकस्याऽप्रसङ्गात्सुपेत्येतावतैव सहेति सिद्धे तद्ग्रहणं योगविभागार्थमिति भावः ।सहे॑त्यत्र 'सुबामन्त्रिते' इत्यतः सुबित्यनुवर्तते । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । 'समर्थः पदविधिः' इत्यतः समर्थग्रहणमनुवृत्तं तृतीयया विपरिणम्यते । तदाह — सुबन्तमित्यादिना । समस्यत इति । एकीक्रियते प्रयोक्तृभिरित्यर्थः । समाससंज्ञां लभत इति यावत् । केचित्तु सुबन्तं कर्तृ समर्थेन समस्यते, एकीभवतीत्यर्थः । कर्तरि लट् ।उपसर्गादस्यत्यूह्रो॑रित्यात्मनेपदम् । समासशब्दोऽपि कर्तरि बाहुलकाद्घञन्तएव, कर्मणि घञन्तो वा । तथा सति समस्यत इति कर्तरि तिङन्तं फलितार्थकथनपरमित्याहुः । ननुघटो भवती॑त्यत्र समासे घट-भवतीत्यपि लोके प्रयोगः स्यादित्यत आह — योगविभागस्येति । कतिपयेति । कतिपयानि तिङन्तानि उत्तरपदानि यस्येति विग्रहः ।पर्यभूषयदिति । समासान्तोदात्तत्वे शेषनिघात इति 'कुगति' इति सूत्र#ए कैयटः ।देवो देवान् क्रतुना पर्यभूषय॑दित्यत्र तु स्वरव्यत्ययो बोध्यः । अनुव्यचलदिति ।अचल॑दित्यनेन वेः पूर्वं समासे सति तेन अनोः समासः । नत्वनुव्योर्युगपत्समासः, सुबित्येकत्वस्य विवक्षित्वात् । अत एवमहिष्या अजायाश्च क्षीर॑मित्यत्र क्षीरशब्देन सुबन्तयोर्न समास इति कैयटः । सुपा । 'सुबामन्त्रिते' इत्यतः सुबित्यनुवर्तते । 'समास' इत्यधिकृतम् । तदाह — सुप्सुपेति । सुबन्तं सुबन्तेनेत्यर्थः । ततश्च पूर्वं भूत इति विग्रहे समाससंज्ञा स्थिता । समासत्वात्प्रातिपदिकसंज्ञेति ।कृत्तद्धितसमासाश्च इत्यनेने॑ति शेषः ।

Padamanjari

Up

index: 2.1.4 sutra: सह सुपा


सहवचनं किमर्थम्, यावता तृतीयैव सहार्थमाक्षेप्स्यति, यथा'वृध्दो यूना' इति? सहभूतयोः समाससंज्ञा यथा स्याद् एकैकस्य मा भूद्; अन्यथा पूत्रेण सहागतः पितेत्यत्र यथा द्वयोरप्यागमनेन सम्बन्धः, एवं समाससंज्ञापि प्रत्येकमेव स्यात्, सहग्रहणे तु सहभूतयोरेका संज्ञा भवति। किं च स्याद् यद्येकैकस्य संज्ञा स्यात्? इह ऋक्पाद इति समासान्तः प्रसज्येत, द्वौ च स्वरौ स्याताम्।'कृतध्दितसमासाश्च' इत्यत्र तु समासश्च समासश्चोत्योकशेषो व्याख्यास्यते, तेन समाससमूहस्य संज्ञाविधिनियमार्थ इति वाक्यस्य न भविष्यति; अन्यथा त्वेकैकस्य समासस्य प्रत्ययान्तत्वाद्विध्यर्थं समासकग्रहणं स्यत्।'समासाञ्च तद्विषयात्' इत्यत्रापि प्रातिपदिकादित्यनुवर्तते, समूहस्य च प्रातिपदिकत्वम्, न त्वेकाकस्य समासस्येति समासादित्येकत्वादिवक्षया समूहादेव सिध्दः प्रत्ययः। तदेवं समुदायस्य यथा स्यादेकैकस्य मा भूदिति सहग्रहणम्। नैतदस्ति प्रयोजनम्,'समासः' इति महती संज्ञा क्रियते-अन्वर्थसंज्ञा यथा विज्ञायेत। यस्मिन्समुदायो दपद्वयं परस्परं समस्यते स समासः।'हलश्च' इत्यधिकरणे घञ्। तस्मादनर्थकं सहग्रहणम् तत्राह-सहग्रहणं योगविभागार्थमिति। सहेत्येको योगः, सुबित्येव, सुप् सह समस्यते, केन? पदविधित्वात्समर्थेन। अनुव्यचलदिति। तत्र सुबित्येकत्वस्य विवक्षितत्वाध्देः पूर्वं समासः, पश्चादनोः, तत्र नित्यसमासत्वाध्देः शाकलाभावः। समासान्योदातत्वं तु न भवति;ठ्तिङ्ङतिङःऽ इति निघातात्। अनोः'गतिर्गतौ' इति निघातः, वेèर्यणादेशे ठुदातस्वरितयोःऽ इत्यटः स्वरितत्वम्। अन्ये तु-सतिशिष्ट्ंअ समासान्योदातत्वं भवतीत्याहुः। विभक्तिस्तु सत्यपि समासत्वेन प्रातिपदिकत्वेन भवति; तिण्èóकत्वस्योक्तत्वात्। यद्वा-वचनग्रहणमुक्तेष्वप्येकत्वादिषु यथा स्यादिति प्रथमैकवचनम्, हल्ङ्यादिलोपः। एवं चैकपद्यादामनुव्यचलद्देवदतेति ठाम एकन्तरमामन्त्रितमनन्तिकेऽ इति निघातप्रतिषेधो भवति। यौगविभागश्चेष्टसिध्द्यर्थ इत्यतिप्रसङ्गो नीद्भावनीयः॥