2-2-38 कडाराः कर्मधारये आ कडारात् एका सञ्ज्ञा समासः पूर्वम् वा
गुणशब्दानां विशेषणत्वात् पूर्वनिपाते प्राप्ते विकल्प उच्यते। कडारादयः शब्दाः कर्मधारये समासे वा पूर्वं प्रयोक्तव्याः। कडारजैमिनिः। जैमिनिकडारः॥ कडार। गडुल। काण। खञ्ज। कुण्ठ। खञ्जर। खलति। गौर। वृद्ध। भिक्षुक। पिङ्गल। तनु। वटर।कर्मधारय इति किम्? कडारपुरुषो ग्रामः॥
॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य द्वितीयः पादः॥
कडारादयः शब्दाः कर्मधारये वा पूर्वं प्रयोज्याः । कडारजैमिनिः । जैमिनिकडारः ॥
कडाराः कर्मधारये॥ बहुवचननिर्द्दशादाद्यर्थोऽवगम्यत इत्याह - कडारादय इति॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां द्वितीयाध्यायस्य द्वितीयः पादः॥