2-1-2 सुप् आमन्त्रिते पराङ्गवत् स्वरे आ कडारात् एका सञ्ज्ञा
index: 2.1.2 sutra: सुबामन्त्रिते पराङ्गवत् स्वरे
स्वरे (कर्तव्ये) सुप् आमन्त्रिते पराङ्गवत्
index: 2.1.2 sutra: सुबामन्त्रिते पराङ्गवत् स्वरे
स्वरविधानस्य विषये आमन्त्रितसंज्ञके परे सुबन्तम् परस्य अङ्गवत् कार्यम् करोति ।
index: 2.1.2 sutra: सुबामन्त्रिते पराङ्गवत् स्वरे
A सुबन्त that is followed by an आमन्त्रित will behave exactly like the अङ्ग of that आमन्त्रित,when it comes to determination of the स्वर in that सुबन्त.
index: 2.1.2 sutra: सुबामन्त्रिते पराङ्गवत् स्वरे
सुबन्तमामन्त्रिते परतः परस्य अङ्गवद् भवति, स्वरे स्वरलक्षणे कर्तव्ये। तादात्म्यातिदेशोऽयम्। सुबन्तमामन्त्रितमनुप्र्विशाति। वक्ष्यति आमन्त्रितस्य च 6.1.198। आमन्त्रितस्यादिरुदात्तो भवति। ससुप्कस्य अपि यथा स्यात्। कुण्डेनाटन्। परशुना वृश्चन्। मद्राणाम् राजन्। कश्मीराणां राजन्। सुपिति किम्? पीड्ये पीद्यमान। आमन्त्रिते इति किम्? गेहे गार्ग्यः। परग्रहणम् किम्? पूर्वस्य मा भूत्। देवदत्त, कुण्डेनाटन्। अङ्गग्रहणं किम्? यथा मृत्पिण्डीभूतः स्वरं लभेत। उभयोराद्यौत्तत्वं मा भूत्। वत्करणं किम्? स्वाश्रयमपि यथा स्यात्। आम् कुण्डेनाटन्। आम एकान्तरमामन्त्रितमनन्तिके 8.1.55 इत्येकान्तरता भवति। स्वरे इति किम्? कूपे सिञ्चन्। चर्म नमन्। षत्वणत्वे प्रति पराङ्ग्वद् न भवति। सुबन्तस्य पराङ्गवद् भावे समानाधिकरणस्य उपसङ्ख्यानमनन्तरत्वत्। तीक्ष्णया सुच्या सीव्यन्। तीक्ष्णेन प्रशुना वृश्चन्। अव्ययानां प्रतिषेधो वक्तव्यः। उच्चैरधीयानः। नीचैरधीयानः।
index: 2.1.2 sutra: सुबामन्त्रिते पराङ्गवत् स्वरे
सुबन्तमामन्त्रिते परे परस्याङ्गवत्स्वरे कर्तव्ये । द्रवत्पाणी शुभस्तपती (द्रव॑त्पाणी॒ शुभ॑स्पती) । शुभ इति शुभेः क्विबन्तात्षष्ठ्यन्तस्य परशरीरानुप्रवेशे पाष्ठिकमामन्त्रिताद्युदात्तत्वम् । न चाष्टमिको निघातः शङ्क्यः । पूर्वामन्त्रितस्याविद्यमानत्वेन पादादित्वात् । यत्ते दिवो दुहितर्मर्त भोजनम् (यत्ते॑ दिवो दुहितर्मर्त॒ भोज॑नम्) । इह दिवःशब्दस्याष्टमिको निघातः । परशुना वृश्चन् ।<!षष्ठ्यामन्त्रितकारकवचनम् !> (वार्तिकम्) ॥ षष्ठ्यन्तमामन्त्रितान्तं प्रति यत्कारकं तद्वाचकं चेति परिगणनं कर्तव्यमित्यर्थः । तेनह न । अयमग्ने जरिता (अ॒यम॑ग्ने जरि॒ता ) । एतेनाग्ने ब्रह्मणा (ए॒तेना॑ग्ने॒ ब्रह्म॑णा) । समर्थानुवृत्त्या वा सिद्धम् ।<!पूर्वाङ्गवच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ आ ते पितर्मरुताम् (आ ते॑ पितर्मरुताम्) । प्रति त्वा दुहितर्दिवः (प्रति॑ त्वा दुहितर्दिवः) ।<!अव्ययानां न !> (वार्तिकम्) ॥ उच्चारधीयान ।<!अव्ययीभावस्य त्विष्यते !> (वार्तिकम्) ॥ उपाभ्यधीयान ।
index: 2.1.2 sutra: सुबामन्त्रिते पराङ्गवत् स्वरे
परस्याङ्गवदिति। तस्यैव पदस्यामन्त्रितस्याङ्गवदेकदेशवद्भवति, तद्ग्रहणेन गृह्यत इत्यर्थः। तादात्म्यातिदेशोऽयमिति। अङ्गश्बदस्यावयववचनत्वात् तस्यामन्त्रितस्यात्मा तदात्मा, तस्य भावस्तादात्म्यम्, तत्स्वभावत्वमित्यर्थः। एतदेव स्पष्टयति-सुबन्तमिति। अनुप्रविशति उ अन्तर्भवति, सुबन्तामन्त्रितसमुदाय एकस्मिन्नामन्त्रिते संपन्ने यः स्वरः शक्यते कर्तुं स कर्तव्य इत्यर्थः। कः पुनरसौ? आद्यौदातत्वम्, समुदायस्य च पदात्परत्वे निघातः। कुण्डेनाटन्निति। नन्वत्र सति तावत्पराङ्गवद्भावे समुदायस्याद्यौदातत्वं शेषनिघामन्त्रितं निहन्यते। यदा तर्ह्यटन्नित्येतत्पादादौ वर्तते तदा नास्ति निघात इति द्वयोराद्यौदातत्वं स्यात्। किं च पुंल्लिङ्गोऽपि कुण्डशब्दोऽस्ति-पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः। इति। कुण्डीति च जानपदादिसूत्रेण ङीषि भवति। परशुना वृश्चन्निति। ठाङ्परयोः खनिशृभ्यां डिच्चऽ इति कुप्रत्ययान्तत्वादन्तोदातः परशुशब्दः, मद्रशब्दः'मदेश्च' इति रक्प्रत्ययान्तः, कश्मीरशब्दो धृतादित्वादन्तोदातः,'सुबन्तस्य पराङ्गवद्भावे तन्निमितग्रहणम्' तस्यामन्त्रितवाच्यस्यार्थस्य यन्निमितं तदभ्धाय्येव सुबन्तं पराङ्गवदित्यर्थः। उदाहरणेषु तृतीयान्तस्य तावन्निमितत्वमस्त्येव;षष्ठ।ल्न्तस्याप्यस्ति, भृत्यनिमिता हि राजता, देशनिमिता वा। एवं गोषु स्वामिन्नित्यत्रापि भवति। तन्निमितत्वाभावे तु न भवति-मरुत्वां इन्द्र वृषभो रणाय, मरुद्भिरिन्द्र सख्यं ते अस्तु, मायाभिरिन्द्रमायिनम्, एतेनाग्ने ब्रह्मणा वावृधस्व, क्षेत्त्रेणाग्ने स्वायुस्सम्भरस्व, मित्रेणाग्ने मित्रधेये यतस्व। सुबिति किमिति। तन्निमितग्रहणादेव तिङ्न्तस्य सिध्दो निरास इति प्रश्नः। पीड।ले पूड।ल्मानेति। न हि सूत्रकारो वार्तिककारवचनेनातिव्याप्तिनिवारणं मन्यत इति भावः।'पीड अवगारहने' चुरादिणिच्, उभयत्र कर्मणि लट्, एकत्रोतमैकवचनमिट्, अवपत्र शानच्, यकि णिलोपः,'तास्यनुदातेत्' इति इटोऽ नुदातत्वम्, यकः प्रत्ययस्वरः, ठेकादेश उदातेनोदातःऽ इत्येकार उदातः, पीड।ल्मानेत्यत्रामन्त्रितनिघातः। ननु च समर्थग्रहणानुवतयैवात्र न भविष्यति, अस्त्य त्रापि सामर्थ्यम्, कथम्? सम्बोधनपदं क्रियाया एव विशेषकम्, तथा च ब्रजानि देवदतेत्यत्रामन्त्रितनिधातो भवति। उक्तं च सम्बोधनपदं यद्यतत्क्रियाया विशेषकम्। ब्रजानि देवदतेति निधातोऽत्र तथा सति॥ इति। अथ वा- हेतुहेतुमद्भावलक्षणोऽत्र सम्बन्धः, हे पीड।ल्मान त्वत्पीडयाहमपि पीड।ल् इति। गेते गार्ग्य इति। गेहशब्द उञ्छादित्वादन्तोदातः, एकस्यामासनादिकायां क्रियायां द्वयोरपि कारकत्वातद्द्वारेणास्ति सामर्थ्यम्। परग्रहणं किमिति। सन्निधानादामन्त्रितस्ययैव भविष्यतीति प्रश्नः। पूर्वस्य मा भूदिति। निमितभाव एवामन्त्रितस्योपक्षीणतया पूर्वस्यापि स्यादिति भावः। एवं च पूर्वस्यामन्त्रितत्वमतन्त्रम्। गार्ग्यः कुण्डेनाटन्नित्यादावपि भवति सन्निधानात्। अमन्त्रितत्वमपि तन्त्रमिति चेत; यद्येवम्, परमेव संनिहितमिति न पूर्वं प्रत्यङ्गत्वप्रसह्गः। देवदतः कुण्डेनाटन्नित्यत्र पूर्वं प्रत्यङ्गत्वे सति समुदायस्याद्यौदातत्वं शेषनिघातः। अटन्नित्यामन्त्रितनिघात इति स्वरः। परग्रहणे तु सति देवदतशब्दस्यामन्त्रिताद्यौदातत्वम्। तथा कुण्डेनाटन्नित्यम्यापि निधातस्तु न भवति; ठमन्त्रितं पूर्वमविद्यमानवत्ऽ इति देवदतशब्दस्याविद्यमानवत्वाद्। च्छन्सि तु परमपि पूर्वस्याङ्गवद्ष्यते-आ ते पितर्मरुतां सुम्नमेतु। पुतरित्यनेन सह मरुतामित्यस्यापि निघातः। यथा मत्पुण्डीभूतः। तत्र सुबन्तस्य मृत्पिण्डात्मना परणामासम्भवादेकीभावप्रतिपादनपरमेतत्। मृत्पिण्ड इवैकतामापन्न इत्यर्थः। यद्वा, पिण्डीशब्दोऽप्यस्ति-प्रविश पिण्डीमिति, तस्यायं प्रयोगः। भूतशब्दौपमार्थः-पितृभूत इति यथा। किमर्थं पुनरेवंभूतस्यस्वरप्राप्तये यत्न इत्यत आह-उभयोरपीति। असत्यङ्गग्रहणे कार्यव्यपदेशशास्त्राणामन्यतमातिदेशः स्याद्। यथा परस्य कार्यमामन्त्रितस्य स्वरः आमन्त्रितव्यपदेशः स्वरशास्त्रं वा, तथा सुबन्तस्यापि तद्भवतीति। एवं चोभयोराद्यौदातत्वं स्यात्। ननु च पदात्परस्य निघातादुभयोरनुद्तत्वं मा भूद्ति वाच्यम्; सत्यम्, आमन्त्रितस्यापादादित्वे सति, पादादित्वे तदुक्तम्। वत्करणं किमिति। परत्र परशब्दप्रयोगादेव वत्यर्थो लप्स्यत इति प्रश्नः। स्वाश्रयमपि यथा स्यादिति। नानेन क्वाचित्कत्वमस्योच्यते। एवं हि विषयविभागे न ज्ञायते-क्वाह्गवद्भवति? क्व नेति? नापि कादाचत्कत्वम्-कदाचिदङ्गवत्, कदाचिन्नेति, एवं हि सर्वत्र विकल्पः स्यात्। तस्मादमयत्रार्थ - असति वद्ग्रहणे आम् कुण्डेनाटन्निति स्थिते अटन्नित्यस्य निघाते प्राप्ते कूण्डेनेत्यस्यानुप्रवेशात्कुण्डेनाटन्नित्येकमामन्त्रितं सम्पन्नम्। न च तदेकान्तरमिति प्रतिषेधाभावान्निघात एव स्यात्। वत्करणे तु सति अटन्नित्यस्य तावदेकान्तरत्वान्निघातप्रतिषेधे आद्यौदातत्वं प्राप्तम्। तस्यां दशायां कुणडेनेत्यम्यानुप्रवेशात्समुदायस्याद्यौदातत्वं भवति। तदेवं समुदायस्यानैकान्तरत्वेऽपि अटन्नित्यस्य यदेकान्तरत्वं वत्करणेन लब्धं तेनैव समुदायस्य निघातनिवृत्तिराद्यौदातत्वं च भवति। कूपे स्ञ्चन्निति। अत्र पराङ्गवद्भावे सति ऐकपद्यत्षत्वप्रसङ्गः, स्वाश्रयं पदादित्वं भविष्यति, सर्वातिदेशेषु ह्यविरुध्दं स्वाश्रयं भवति। किं च नात्रातिदेशिकं सकारस्य किञ्चिच्छास्त्रीयं कार्यमस्ति, अतोऽपि स्वाश्रयं भवत्येव, यथा नमते दण्डः स्वयमेवेत्यत्र यक्प्रतिषेधे शप्। इदं तर्हि-ठ्चर्म नम्न्ऽ, अत्र पराङ्गवद्भावे सति समानपदस्थत्वाण्णात्वं स्यात्। सत्यपि समानपदत्वे'पर्वपदात्संज्ञायामगः' इति नियमादसंज्ञायां न भविष्यति। नायं नियमस्य विषयः, पूर्वपदशब्दो हि समासावयवे रूढः। तेन समास नियम्। अथ तु पूर्वं पदं पूर्वपदंपूर्वपदादत्यविशेषेण नियमो व्याख्यायेत, ततः स्वरग्रहणं शक्यमकर्तुम्। अक्रियमाणे च तस्मिन्, समानाधिकरणस्योपसंख्यानमित्येतदमपि शक्यमकर्तुम्। कथं परस्याङ्गवद्भावे कृते चिणो लुङ्न्यायेन विष्यभेदाल्लक्षणस्यावृतौ पूर्वस्यापि पराङ्गवद्भावो भविष्यति? सति तु स्वरग्रहणे स्वहादन्यत्र परशुना वृश्चन्नित्यत्र वृश्चन्निति प्रतिपदिकम्; न च प्रत्ययलक्षणेनाप्रत्यय इति प्रतिषेषः,'न ङ्गिंबुध्द्योः' इति निषेधाल्लिङ्गात्; तत्र पराङ्गवद्भावेन प्रातिपदिकानुप्रवेशात्'सुपो धातुप्रातपदिकयोः' इति सुब्लुक् प्रसज्येत; स्वहग्रहणे तु सतु सुब्लुकि कर्तव्ये पराङ्गवद्भावाभावः? नैतदस्ति; पराङ्गवदित्यामन्त्रितं संनिधानात्परशब्देन गृह्यते; तस्य रूपस्य सूबन्तैकान्तत्वात्सुबन्तकार्य एव पराङ्गवद्भावः, न प्रातिपदिककार्ये। उच्चैरधीयानेति। उच्चैर्नीचैः शब्दौ स्वराद्ष्वन्तोदातौ पठितौ, अधिकरणशक्तिप्राधान्याञ्च तस्मिन्निमितं च ॥