1-4-40 प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता आ कडारात् एका सञ्ज्ञा कारके सम्प्रदानम्
प्रति + श्रु, तथा च आङ् + श्रु इत्येतयोः प्रयोगे "यस्मै वचनं दीयते" तत् कारकं सम्प्रदानसंज्ञं भवति । यथा - देवदत्ताय गां प्रतिशृणोति, देवदत्ताय गाम् आशृणोति ।
प्रति आङ्इत्येवंपूर्वस्य शृणोतेः कारकं संप्रदानसंज्ञं भवति। कीदृशम्? पूर्वस्य कर्ता। प्रतिपूर्व आङ्पूर्वश्च शृणोतिरभ्युपगमे प्रतिज्ञाने वर्तते। स चाभ्युपगमः परेण प्रयुक्तस्य सतो भवति। तत्र प्रयोक्ता पूर्वस्याः क्रियायाः कर्ता संप्रदानसंज्ञो भवति। देवदत्ताय गां प्रतिशृणोति। देवदत्ताय गामाशृणोति। प्रतिजानीत इत्यर्थः॥
आभ्यां परस्य शृणोतेर्योगे पूर्वस्य प्रवर्तनरूपव्यापारस्य कर्ता संप्रदानं स्यात् । विप्राय गां प्रतिशृणोति आशृणोति वा । विप्रेण मह्यं देहीति प्रवर्तितः प्रतिजानीत इत्यर्थः ॥
<<कारके>> 1.4.23 इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं अष्टमं सूत्रम् । <<प्रति>>-उपसर्गपूर्वकात् <<श्रु>>-धातोः प्रयोगे, तथा च <<आ>>-उपसर्गात् <<श्रु>>-धातोः प्रयोगे प्रकृतसूत्रेण सम्प्रदानसंज्ञायाः विधानं क्रियते । यद्यपि <<श्रु (श्रवणे)>> <{1.1092}> इत्यस्य अर्थः श्रवणम् इति वर्तते, तथापि <<प्रति + श्रु>>, एवमेव <<आङ् + श्रु>> इत्येतयोः अर्थः प्रतिज्ञानम् / वचनप्रदानम् इति भवति । अस्मिन् सन्दर्भे,
<<प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता>> - प्रत्याङ्भ्याम् । प्रत्याङ्भ्यामिति दिग्योगे पञ्चमी । परस्येत्यध्याहार्यं श्रुव इत्यस्य विशेषणम् ।श्रु श्रवणे॑ । इह तु प्रेरणापूर्वकाभ्युपगमे वर्तते । पूर्वशब्दः प्रेरणात्मकव्यापारं परामृशति । तदाह — आभ्यामित्यादिना ।पूर्वस्ये॑त्यस्य व्याख्यानं-प्रवर्तनारूपस्येति । प्रेरणारूपस्येत्यर्थः ।प्रत्याङ्भ्या॑मित्यनेन समुदिताभ्यां परस्येति नार्थो विवक्षितः, किन्तु प्रत्येकमेव तयोर्निमित्तत्वम्, अन्यथाअभिनिविशश्चे॑तिवत् 'प्रत्याङ् श्रुवः' इत्येव ब्राऊयादित्यभिप्रेत्योदाहरति — विप्राय गां प्रतिश्रणोति आश्रणोति वेति । अत्र प्रतिपूर्वक आङ्पूर्वकश्च श्रुधातुः प्रेरणापूर्वकाभ्यपगमे वर्तते, ततश्च प्रवर्तितः प्रतिजानीते इति लभ्यते केन प्रवर्तित इत्याकाङ्क्षायां विप्रः कर्त्तृत्वेनान्वेति । तत्र विप्रस्य प्रेरणाकर्त्तृत्वात्संप्रदानत्वं कर्त्तृ तृतीयापवाद इत्यभिप्रेत्याह — विप्रेणेति । मग्यं गवादिद्रव्यं देहीति विप्रेण पृष्टः सन् देवदत्तस्तुभ्यं ददामीत्यभ्युपगच्छतीति योजना ।
द्विवचननिर्देशात् प्रत्येकमुपसर्गसम्बन्ध इत्याह - आङ्पूर्वस्य प्रतिपूर्वस्य चेति। कः पुनरत्र पूर्वो व्यापार इत्यत्राह - प्रत्याङ्पूर्वश्चेत्यादि परेण प्रयुक्तस्येति। इदं मे देहीत्येवं प्रार्थितस्येत्यर्थः। पूर्वस्याः क्रियाया इति। सूत्रे तु व्यापाररूपविवक्षया पूर्वस्येति निर्देशः, यत्र हेतुसञ्ज्ञायां प्राप्तायां देवदतेन प्रतिश्रावयतीति प्रयोगनिवृतये वचनमित्याहुः। विवक्षान्तरे च देवदतो गां प्रतिश्रावयतीति भवत्येव॥