ऋणमाधमर्ण्ये

8-2-60 ऋणम् आधमर्ण्ये पदस्य पूर्वत्र असिद्धम् निष्ठातः नः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ऋणमिति ऋ इत्येतस्माद् धातोरुत्तरस्य निष्ठातकारस्य नकारो निपात्यत आधमर्ण्यविषये। अधम ऋणेऽधमर्णः। एतस्मादेव निपातनात् सप्तम्यन्तेनोत्तरपदेन समासः, तद्भाव आधमर्ण्यम्। यद्येवम्, उत्तमर्ण इति न सिध्यति? नैष दोषः। कालान्तरदेयविनिमयोपलक्षणार्थं चेदमुपात्तम्। तेनोत्तमर्ण इत्यपि हि भवति। ऋणं ददाति। ऋणं धारयति। आधमर्ण्य इति किम्? ऋतं वक्ष्यामि नानृतम्॥

Siddhanta Kaumudi

Up

ऋधातोः क्ते तकारस्य नत्वं निपात्यते अधमर्णव्यवहारे । ऋतमन्यत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ऋणमाधमर्ण्ये>> - ऋणमाधमण्र्ये । अधमर्णस्य कर्म - आधमण्र्यम् । आधमण्र्यव्यवहारे इति । स च अन्यदीयं द्रवयं गृहीतमियता कालेन इयत्या वृद्ध्या प्रतिदीयते इति संविद्रूपः, तस्मिन्विषये इत्यर्थः । ऋतमन्यदिति । सत्यमित्यर्थः ।

Padamanjari

Up

ऋ इत्येतस्मादिति ।'ञ सृ गतौ' , ठृ गतिप्रापणयोःऽ इति वा । एतस्मादेवेति । शौण्डादिव्यतिरेकेण सप्तमीसमास एव मृग्यः, प्रागेव सप्तम्यन्तोतरपद इति भावः । कालान्तरेत्यादि । ऋणग्रहणकालापेक्षया कालान्तरत्वम्, तत्र देयं कालान्तरदेयम्, तत्र यो विनिमयःउविपरिवर्तनं तदुपलक्षणार्थमाधमर्ण्यग्रहणम्, न तु स्वार्थप्रतिपादनार्थम् । किं पुनः कारणमेवं व्याख्यायते ? इत्याह - उतमर्ण इत्यपि हीति । एतच्च'धारेरुतमर्णः' इति निर्देशादवसितम् ॥