1-3-79 अनुपराभ्यां कृञः धातवः कर्तरि कर्तरि परस्मैपदम्
index: 1.3.79 sutra: अनुपराभ्यां कृञः
कर्त्रभिप्राये क्रियाफले गन्धनादिषु च करोतेरात्मनेपदं विहितम्। तदपवादः परस्मैपदं विधीयते। अनु परा इत्येवं पूर्वात् करोतेः परस्मैपदं भवति। अनुकरोति। पराकरोति।
index: 1.3.79 sutra: अनुपराभ्यां कृञः
॥ अथ तिङन्तपरस्मैपदप्रकरणम् ॥
कर्तृगेऽपि फले गन्धनादौ च परस्मैपदार्थमिदम् । अनुकरोति । पराकरोति । कर्तरीत्येव । भावकर्मणोर्मा भूत् । न चैवमपि कर्मकर्तरि प्रसङ्गः । कार्यातिदेशपक्षस्य मुख्यतया तत्र कर्मवत्कर्मणा <{SK2766}> इत्यात्मनेपदेन परेणास्य बाधात् । शास्त्रातिदेशपक्षे तु कर्तरि शप् <{SK2167}> इत्यतः शेषात् <{SK2159}> इत्यतश्च कर्तृग्रहणद्वयमुवर्त्य कर्तैव यः कर्ता नतु कर्मकर्ता तत्रेति व्याख्येयम् ॥
index: 1.3.79 sutra: अनुपराभ्यां कृञः
कर्तृगे च फले गन्धनादौ च परस्मैपदं स्यात्। अनुकरोति। पराकरोति॥
index: 1.3.79 sutra: अनुपराभ्यां कृञः
अनुपराभ्यां कृञः - अनुपराभ्यां कृञः ।परस्मैपदमिति शेषः । ननु 'स्वरितञितः' इत्यात्मनेपदस्य कर्तगाम्नियेव फले विधानादकर्तृगामिनि फलेशेषात्कर्तरी॑ति परस्मैपदस्य सिद्धत्वात् किमर्थ मिदमित्यत आह — कर्तृगेऽपीति । गन्धनादाविति । गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु इत्यर्थः । मा भूदिति । भावे कर्मणि लकारस्य कर्तृगे फलेपरस्मपैदनिवृत्त्यर्थं कर्तरीत्यस्याऽनुवृत्तिरिति भावः । ननु कर्तरीत्यस्यानुवृत्तावपिअनुक्रियते शब्दः स्वयमेवे॑त्यत्र कर्मकर्तरि परस्मैपदं दुर्वारमित्याशङ्क्य परिहरति — नचेति । एवमपि = कर्तरीत्यस्यानुवृत्तावपि कर्मकर्तरि आत्मनेपदस्य प्रसङ्गो न शङ्क्य इत्यर्थः । कुत इत्यत आह — कार्यातिदेशेति । तत्र कर्मकर्तरिकर्मवत्कर्मणा तुल्यक्रियः॑ इत्यात्मनेपदेन परेणाऽस्य परस्मैपदस्य बाधादित्यन्वयः । नु कर्मणि यच्छास्त्रं तत्कर्मवत्कर्मणे॑ति कर्मकर्तर्यतिदिश्यते, तथा चाऽत्र कर्मकर्तरिभावकर्मणो॑रित्यात्मनेपदशास्त्रमिह प्राप्तम् । तस्य च परत्वाऽभावात् 'अनुपराभ्यां कृञः' इत्यनेन कथं बाधः स्यादित्यत आह — कार्यातिदेशपक्षस्य मुख्यतयेति । शास्त्रातिदेशस्य कार्यातिदेशार्थतया कार्यातिदेशस्य मुख्यत्वम् । ततश्चकर्मवत् कर्मणे॑त्यनेन कर्मणि विहितमात्मनेपदं कर्मकर्तरि विधीयते । तस्य च परत्वात्तेनात्मनेपदेनअनुपराभ्याटमिति परस्मैपदं कर्मकर्तरि बाधमर्हतीति भावः ।कर्मवत्कर्मणे॑त्यत्र शास्त्रातिदेशमभ्युपगम्याअह — - शास्त्रातिदेशपक्षे त्विति । 'अनुपराभ्यां कृञः' इत्यत्रकर्तरि कर्मव्यतिहारे॑ इत्यस्मादेकं कर्तृघणमनुवर्तते । तथाशेषात्कर्तरि परस्मैपद॑मित्यस्माद्द्वितीयं कर्तृग्रहणमनुवर्तते । तथा चस्वभावतः एव यः कर्ता, नतु विवक्षाधीनः कर्मकर्ता तथाविधकर्तर्येव अनुपराभ्यां कृञः परस्मैपद॑मिति लभ्यते । एवं च कर्मकर्तरि नास्य प्रवृत्तिरित्यर्थः ।
index: 1.3.79 sutra: अनुपराभ्यां कृञः
अत्रापि द्वितीयं कर्तृ ग्रहणमनुवर्तते। अनुक्रियते स्वयमेव, पराक्रियते स्वयमेव॥