1-3-32 गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः धातवः आत्मनेपदम् कर्तरि
गन्धन-अवक्षेपण-सेवन-साहसिक्य-प्रतियत्न-प्रकथन-उपयोगेषु कृञः आत्मनेपदम्
गन्धनम् (अनुपस्थितौ अपशब्दप्रयोगः), अवक्षेपणम् (निन्दा), सेवनम् (सेवा), साहसिक्यम् (बलात्कारः), प्रतियत्नम् (गुणपरिवर्तनम्), प्रकथनम् (कथनम्), उपयोग (प्रयोगः) - एतेषु अर्थेषु कृ-धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
The verb कृ gets the प्रत्ययाः of आत्मनेपद, when used in the meanings of - (1) गन्धनम् - To backbite, (2) अवक्षेपणम् - To defame, (3) सेवन् - To serve or help out (4) साहसिक्यम् - To force someone to do something against their wish, To rape (5) प्रतियत्न -To make someone change their character, (6) प्रकथनम् - To narrate, and (7) उपयोग - To bring in practice, to use.
कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम्। अकर्त्रभिप्रायार्थोऽयमारम्भः। गन्धनादिष्वर्थेषु वर्तमानात् करोतेरात्मनेपदं भवति। गन्धनमपकारप्रयुक्तं हिंसात्मकं सूचनम्। तथाहि — <<बस्त गन्ध अर्दने>>, <<अर्द हिंसायाम्>> इति चुरादौ पठ्यते। अवक्षेपणं भर्त्सनम्। सेवनमनुवृत्तिः। साहसिक्यं साहसं कर्म। प्रतियत्नः सतो गुणान्तराधानम्। प्रकथनं प्रकर्षेण कथनम्। उपयोगो र्धादिप्रयोजनो विनियोगः। गन्धने तावत् — उत्कुरुते। उदाकुरुते। सूचयतीत्यर्थः। अवक्षेपणे — श्येनो वर्तिकामुदाकुरुते। भर्त्सयतीत्यर्थः। सेवने — गणकानुपकुरुते। महामात्रानुपकुरुते। सेवत इत्यर्थः। साहसिक्येपरदारान् प्रकुरुते। तेषु सहसा प्रवर्तत इत्यर्थः। प्रतियत्ने — एधोदकस्योपस्कुरुते। काण्डं गुडस्योपस्कुरुते। तस्य सतो गुणान्तराधानं करोतीत्यर्थः। षष्ठीसुटौ करोतेः प्रतियत्न एव विधीयेते। प्रकथने — गाथाः प्रकुरुते। जनापवादान् प्रकुरुते। प्रकर्षेण कथयतीत्यर्थः। उपयोगे — शतं प्रकुरुते। सहस्रं प्रकुरुते। धर्मार्थं शतं विनियुङ्क्त इत्यर्थः। एतेष्विति किम् ? कटं करोति॥
गन्धनं हिंसा । उत्कुरुते । सूचयतीत्यर्थः । सूचनं हि प्राणवियोगानुकूलत्वाद्धिंसैव । अवक्षेपणं भर्त्सनम् । श्येनो वर्तिकामुदाकुरुते । भर्त्सयतीत्यर्थः । हरिमुपकुरुते । सेवते । परदारान्प्रकुरुते । भर्त्सयतीत्यर्थः । तेषु सहसा प्रवर्तते । एधोदकस्योपस्कुरुते । गुणमाधत्ते । गाथाः प्रकुरुते । प्रकथयति । शतं प्रकुरुते । धर्मार्थं विनियुङ्क्ते । एषु किम् । कटं करोति ॥
गन्धनं सूचनम्। उत्कुरुते। सूचयतीत्यर्थः। अवक्षेपणं भर्त्सनम्। श्येनो वर्तिकामुत्कुरुते। भर्त्सयतीत्यर्थः। हरिमुपकुरुते। सेवत इत्यर्थः। परदारान् प्रकुरुते। तेषु सहसा प्रवर्तते। एधोदकस्योपस्कुरुते। गुणमाधत्ते। कथाः प्रकुरुते। प्रकथयतीत्यर्थः। शतं प्रकुरुते। धर्मार्थं विनियुङ्क्ते। एषु किम्? कटं करोति॥ <<भुजोऽनवने>> <{LSK671}> - ओदनं भुङ्क्ते । अनवने किम् ? महीं भुनक्ति ॥ इत्यात्मनेपदप्रक्रिया ॥
डुकृञ् (करणे) अयं धातुः वस्तुतः उभयपदी अस्ति । परन्तु एतेषु अर्थेषु तस्मात् केवलमात्मनेपदस्य प्रत्ययाः एव भवन्ति - 1) गन्धनम् (कस्यचन अनुपस्थितौ तस्य विषये निन्दापूर्वकम् भाषणम्) - सः तानसेनमुत्कुरुते ('तानसेनस्य अनुपस्थितौ तस्य विषये निन्दापूर्वकं भाषते' इत्यर्थः) । 2) अवक्षेपणम् (निन्दा) - राजा शत्रुमुदाकुरुते ('निर्भत्सयति' इत्यर्थः) । 3) साहसिक्यम् (बलात्कारः) - सः परदारान् प्रकुरुते ('सहसा बलात्कारं करोति' इत्यर्थः ) । 4) प्रतियत्नम् (अन्यपदार्थस्य गुणग्रहणम्) - इन्धनमुदकस्य उपस्कुरुते ('जले नूतनान् गुणान् निर्माति' इत्यर्थः । <<कृञः प्रतियत्ने>> 2.3.53 इति षष्ठीविभक्तिः ।] 5) प्रकथनम् (कथनम्) - गुरुः वेदम् प्रकुरुते ('कथयति' इत्यर्थः) । 6) उपयोग (उपयोजनम् ) - धनिकः शतं धर्मार्थं उपकुरुते ('धर्मकार्यार्थम् प्रयुङ्क्ते' इत्यर्थः) । अन्येषु अर्थेषु उभयपदमेव भवति । यथा - कटं करोति कुुरुते वा ।
<<गन्धनावक्षेपणसेवनसाहसिक्य- प्रतियत्नप्रकथनोपयोगेषु कृञः>> - गन्धनावक्षेपण ।आत्मनेपदमकत्र्रभिप्रायेऽपी॑ति शेषः । गन्धनं हिंसेति । गन्ध अर्दने । अर्द हिंसायामित्युक्तेरिति भावः । सूचयतीति । परदोषमाविषकरोतीत्यर्थः । नन्वेवं सति कथमस्य गन्धने वृत्तिः , हिंसाया असत्त्वादित्यत आह — सूचनं हीति । श्येनो वर्तिकामिति । वर्तिका - शकुनिविशेषः । साहसिक्ये उदाहरति — परदारान् प्रकुरुते इति । साहसप्रवृत्तिविषयीकरोतीत्यर्थः । सहसा वर्तते साहसिकः ।ओजस्सहोऽम्भसा वर्तते॑ इति ठक् । तस्य कर्म असमीक्ष्यकरणं = साहसिक्यम् । तदाह — तेषु सहसा प्रवर्तते इति । फलितार्थकथनमिदम्, साहसप्रवृत्तिमात्रार्थकत्वे द्वितीयानुपपत्तेः । अतः साहसप्रवृत्तिविषयीकरणपर्यन्तानुधावनमिति बोध्यम् । प्रतियत्ने उदाहरति - एधोदकस्योपस्कुरुते इति । एधशब्दोऽदन्तःअवोदैधौद्मप्रश्रथहिमश्रथाः॑ इति सूत्रे निपातितः । एधश्च उदकं चेति समाहारद्वन्द्वः । यद्वा एधस्शब्दः सकारान्तो नपुंसकलिङ्गः । एधश्च दकं चेति विग्रहः । दकशब्द उदकवाची ।प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च॑ इति हलायुधः ।काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित् रिउआयामि॑त्यमरः । प्रतियत्नो गुणाधानमित्यभिप्रेत्य आह — गुणमाधत्ते इति । काष्ठस्य शोषणादिगुणाधानम् । दकस्य तु गन्धद्रव्यसंपर्कजनितगन्धाधानम् ।
अपकारप्रयुक्तमिति अपकारेण प्रयुक्तमनेन मेऽपकृतमित्येतया बुद्ध्या कृतमित्यर्थः। अथ वा - कथं मयाऽपकृतं स्यादिति बुद्ध्या प्रवर्तितमित्यर्थः। हिसात्मकमिति। सूचितस्य वधबन्धनादिका हिंसा, इह तु तत्करणत्वात्सूचनमेव हिंसा स्वभावमित्युक्तम्। कथं पुनर्ज्ञायते गन्धनं हिंसात्मकमित्यत आह - तथा हीति। चुरादाविति। स्वभावानुवादः। साहसिक्यमिति। सहसा वर्तते साहसिकः ठोजःसहोम्भसा वर्ततेऽ इति ठक्, तस्य कर्मणि ष्यञ् । वर्तिकाउशकुनिविशेषः। एधोदकस्येति। समाहारद्वन्द्वः।'कृञः प्रतियत्ने' इति षष्ठी। उपस्कुरुत इति। ठुपात्प्रतियत्नऽ इत्यादिना सुट्॥