अधेः प्रसहने

1-3-33 अधेः प्रसहने धातवः आत्मनेपदम् कर्तरि कृञः

Sampurna sutra

Up

index: 1.3.33 sutra: अधेः प्रसहने


अधेः कृञः प्रसहने आत्मनेपदम्

Neelesh Sanskrit Brief

Up

index: 1.3.33 sutra: अधेः प्रसहने


'प्रसहनम्' (क्षमादानम् , विजयप्राप्तिः) एतस्मिन् अर्थे 'अधि' उपसर्गात् 'कृ' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।

Neelesh English Brief

Up

index: 1.3.33 sutra: अधेः प्रसहने


When the उपसर्ग 'अधि' is attached to the verb 'कृ', it gets the प्रत्ययाः of आत्मनेपद ; provided that the meaning is 'to forgive / to obtain victory'.

Kashika

Up

index: 1.3.33 sutra: अधेः प्रसहने


अकर्त्रभिप्रायार्थोऽयमारम्भः। अधिपूर्वात् करोतेः प्रसहने वर्तमानातात्मनेपदं भवति। प्रसहनमभिभवः अपराजयो वा। तमधिचक्रे। तमभिवभूव, न तेन प्राजितः इत्यर्थः। प्रसहने इति किम्? अर्थमधिकरोति। पृथग्योगकरणमुपसर्गविशेषणार्थम्।

Siddhanta Kaumudi

Up

index: 1.3.33 sutra: अधेः प्रसहने


प्रसहनं क्षमाऽभिभवश्च । षह मर्षणेऽभिभवे चेति पाठात् । शत्रुमधिकुरुते । क्षमत इत्यर्थः । अभिभवतीति वा ।

Neelesh Sanskrit Detailed

Up

index: 1.3.33 sutra: अधेः प्रसहने


'प्रसहनम्' इत्युक्ते 'क्षमाकरणम् / विजयप्राप्तिः' इति । अस्मिन् अर्थे 'अधि+ कृ' इत्यस्य आत्मनेपदत्वं भवति । यथा - राजा शत्रुं अधिकुरुते ('विजयं प्राप्नोति / क्षमां करोति' इत्यर्थः) । अन्येषु अर्थषु तु उभयपदम् - अर्थमधिकरोति अधिकुरुते वा (सञ्चयति इत्यर्थः) ।

Balamanorama

Up

index: 1.3.33 sutra: अधेः प्रसहने


अधेः प्रसहने - अधेः प्रसहने । अधेः परस्मात् कृञः प्रसहनवृत्तेरात्मनेपदमित्यर्थः ।

Padamanjari

Up

index: 1.3.33 sutra: अधेः प्रसहने


प्रसाहनमभिभव इति।'सा साहया युधा नृभिः पृतनाषाड्' इत्यादौ दर्शनात्। केचितु'षह मर्षणे' भिभवे च्छन्दसिऽ इति पठन्ति, तत्र'च्छन्दसि' इति प्रायिकं द्रष्टव्यम्। अपराजयो वेति। पराजेतुं समर्थस्यैव क्षमया यस्तदभावः स इत्यर्थः। तथा च भारविः-'भवाद्दशाश्चेदधिकुर्वते परान्' इति, भवाद्दशाश्चेत्परानधिकुर्वतेउ क्षमया न पराजयन्ते, क्षमन्त इत्यर्थः, तदहन वा तेन पराजित इत्यर्थ इति। तेनात्मनेपदवाच्येन कर्त्रा तमित्येद्वाच्यः कर्मभूतो न पराजित इत्यर्थः। पृथग्योगकरणमित्यादि। प्रकथनोपयोगप्रसहनेषु ठधेःऽ इत्युच्यमाने गन्धनादिष्वपि अधिपूर्वादेव स्यात्। अथ तत्राधिग्रहणं न क्रियेत, प्रसहनेऽप्यध्यभावेऽपि प्रसङ्गः;अत उत्सर्गेण प्रसहनं विशेषयिस्यामीति प्रसहने वा उत्सर्गं विशेषयिष्यामीति योगविभाग इत्यर्थः॥