स्पर्द्धायामाङः

1-3-31 स्पर्धायाम् आङः धातवः आत्मनेपदम् कर्तरि ह्वः

Sampurna sutra

Up

index: 1.3.31 sutra: स्पर्द्धायामाङः


स्पर्धायामाङः ह्वे आत्मनेपदम्

Neelesh Sanskrit Brief

Up

index: 1.3.31 sutra: स्पर्द्धायामाङः


'स्पर्धा / सङ्घर्षः / पराभवस्य इच्छा' अस्मिन् अर्थे 'आङ्' उपसर्गात् 'ह्वे' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।

Neelesh English Brief

Up

index: 1.3.31 sutra: स्पर्द्धायामाङः


When the उपसर्ग 'आङ्' is attached to the verb 'ह्वे', it gets the प्रत्ययाः of 'आत्मनेपद', provided the meaning is 'to complete / to wish to defeat'.

Kashika

Up

index: 1.3.31 sutra: स्पर्द्धायामाङः


अकर्त्रभिप्रायार्थोऽयमारम्भः। स्पर्धायां विषये आङ्पूर्वाद् ह्वयतेरात्मनेपदं भवति। स्पर्धा सङ्घर्षः, पराभिभवेछा, स विषयो धात्वर्थस्य। धातुस् तु शब्दत्रिय एव। मल्लो मल्लमाह्वयते। छात्रश् छात्रमाह्वयते। स्पर्धमानस् तस्याऽह्वानं करोति इत्यर्थः। स्पर्धायाम् इति किम्? गामाह्वयति गोपालः।

Siddhanta Kaumudi

Up

index: 1.3.31 sutra: स्पर्द्धायामाङः


कृष्णश्चाणूरमाह्वयते । स्पर्धायां किम् । पुत्रमाह्वयति ।

Neelesh Sanskrit Detailed

Up

index: 1.3.31 sutra: स्पर्द्धायामाङः


ह्वेञ् (स्पर्धायां शब्दे च) अयं धातुः वस्तुतः उभयपदी अस्ति । परन्तु 'स्पर्धां करोति / सङ्घर्षं करोति ' अस्मिन् अर्थे 'आ + ह्वे' अयं धातुः आत्मनेपदस्य प्रत्ययान् स्वीकरोति । यथा - कृष्णः चाणूरमाह्वयते ('युद्धस्य आवाहनं करोति' इत्यर्थः) । अन्येषु अर्थेषु तु उभयपदमेव - माता पुत्रमाह्वयति आह्वयते वा ।

Balamanorama

Up

index: 1.3.31 sutra: स्पर्द्धायामाङः


स्पर्धायामाङः - अथ स्वारितसंज्ञामाह-समाहारः स्वरितः । पूर्वसूत्राभ्यामुदात्त इति अनुदात्त इति चानुवर्तते । ऊकालोऽजित्यस्मादजित्यनुवर्तते । ततश्चोदात्तोऽनुदात्तश्च अच समाह्यियमाणः स्वरित इत्यर्थः प्रतीयते । एवं सति वर्णद्वयस्य स्वरितसंज्ञा स्यान्न त्वेकस्य । अतो नैवमर्थः । किंतु उदात्तानुदात्तपदे अनुवृत्ते धर्मप्रधाने षष्टन्ततया च विपरिणम्येते । यत्र समाहरणं स समाहारः । अधिकरणे घञ् । ततश्च उदात्तत्वानुदात्तत्वयोर्धर्मयोर्यस्मिन्नचि मेलनं सोऽच् स्वरितसंज्ञक इत्यर्थः ।

Padamanjari

Up

index: 1.3.31 sutra: स्पर्द्धायामाङः


सविषय इति । हेतुभावेन च विषयत्वम्, अत एव हेतौ शानच् प्रयुक्तः। स्पर्द्धमानस्तस्याह्वानमिति। शब्दक्रिय एवेति। यद्यपि स्पर्द्धायां पठ।ल्ते, तथाप्याङ्पूर्वस्तत्र न वर्तते, किं तर्हि? शब्दनक्रियावाचीत्यर्थः॥