2-3-53 कृञः प्रतियत्ने अनभिहिते षष्ठी शेषे कर्मणि
सतो गुणान्तराधानं प्रतियत्नः। करोतेः कर्मणि कारके शेषत्वेन विवक्षिते प्रतियत्ने गम्यमाने षष्ठी विभक्तिर्भवति। एधोदकस्योपस्कुरुते। शस्त्रपत्रस्योपस्कुरुते। प्रतियत्न इति किम्? कटं करोति। कर्मणीति किम्? एधोदकस्योपस्कुरुते प्रज्ञया। शेष इत्येव — एधोदकमुपस्कुरुते॥
कृञः कर्मणि शेषे षष्ठी स्यात् गुणाधाने । एधोदकस्योपस्करणम् ॥
<<कृञः प्रतियत्ने>> - कृञः प्रति । कर्मणीति, शेष इति चानुवर्तते । प्रतियत्नो गुणाधानम् । तदाह — कृञः कर्मणीति । एधोदकस्योपस्करणमिति । एधश्शब्दः सकारान्तो नपुंसकलिङ्गः । दकशब्द उदकवाची । एधश्च दकं चेति द्वन्द्वः । यद्वा एधशब्दोऽकारान्तः पुंलिङ्गः । एधश्च उदकं चेति द्वन्द्व इत्यनुपदमेवोक्तम् । वस्तुतःकर्मीभूतैधोदकसंबन्धि परिष्करणमित्यर्थः ।
कृञः प्रतियत्ने॥ एधोदकस्येति।'जातिरप्राणिनाम्' इत्येकवद्भावः। उपस्कुरुत इति। गन्धनादिसूत्रेणात्मनेपदम्। ठुपात्प्रतियत्नऽइत्यादिना सुट्॥