पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः

7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः शिति

Kashika

Up

index: 7.3.78 sutra: पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः


पा घ्रा ध्मा स्था म्ना दाण् दृशि अर्ति सर्ति शद सद इत्येतेषां पिब जिघ्र धम तिष्ठ मन यच्छ पश्य ऋच्छ धौ शीय सीद इत्येते आदेशा भवन्ति शिति परतः। पा पिबति। घ्रा जिघ्रति। ध्मा धमति। स्था तिष्ठति। म्ना मनति। दाण् यच्छति। दृशि पश्यति। अर्ति ऋच्छति। सर्ति धावति। शद शीयते। सद सीदति। पिबतेर्लघूपधगुणः प्राप्नोति, सः अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य इति न भवति। अथ वा अकारान्तोऽयमादेशः आद्युदात्तो निपात्यते। सर्तेर्वेगितायां गतौ धावादेशम् इच्छन्ति। अन्यत्र सरति, अनुसरति इत्येव भवति।

Siddhanta Kaumudi

Up

index: 7.3.78 sutra: पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः


पादीनां पिबादयः स्युरित्संज्ञकसकारादौ प्रत्यये परे । सीदति । ससाद । सेदतुः । सेदिथ । ससत्थ । सत्ता । सत्स्यति । लृदित्वादङ् । असदत् । सदिरप्रतेः <{SK2271}> । निषीदति । न्यषीदत् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.3.78 sutra: पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः


पादीनां पिबादयः स्युरित्संज्ञकशकारादौ प्रत्यये परे। पिबादेशोऽदन्तस्तेन न गुणः। पिबति॥

Balamanorama

Up

index: 7.3.78 sutra: पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः


पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः - लटि शपि सद् अ तीति स्थिते -पाघ्राध्मा । पा घ्रा ध्मा स्था म्ना दाण् दृशि अर्ति सर्ति शद् सद् एषां द्वन्द्वात् षष्ठीबहुवचनम् । पिब जिघ्र धम तिष्ठ मन यच्छ पश्य ऋच्छ धौ शीय सीद एषां द्वन्द्वात् प्रथमाबहुवचनम् । यथासङ्ख्यमादेशाः ।ष्ठिवुक्लमु॑इत्यतः शितीत्यनुवर्तते । श् चासौ इच्चेति कर्मधारयः ।अङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिः । तदाह — इत्संज्ञकेति । ससादेरिति । इत्संज्ञकशकारादिप्रत्ययाऽभावान्न सीदादेशः । श् इत् यस्य स शित् । शितीति बहुव्रीह्राश्रयणे तु पाधातोः कर्मणि लिटि एशि आल्लोपे 'पपे' इत्यत्रापि पिबादेशः स्यादिति बोध्यम् । थलि क्रादिनियमप्राप्तस्य इटः 'उपदेशेऽत्त्वतः' इति निषेधेऽपि भारद्वाजनियमाद्वेट् । तत्र इट्पक्षे 'थलि च सेटी' त्येत्त्वाभ्यासलोपौ । तदाह — सेदिथ ससत्थेति । सेदिव सेदिम । क्रादिनियमादिट् । न्यषीददिति ।प्राक्सितादड्व्यवायेऽपि॑ति षत्वम् ।

Padamanjari

Up

index: 7.3.78 sutra: पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः


'पा पाने' ।'पा रक्षणे' इत्यस्य तु ग्रहणं न भवति; लुग्विकरणत्वात् शितश्चासम्भवात् ।'घ्रा गन्धोपादाने' ,'ध्मा शब्दाग्निसंयोगयोः' ,'ष्ठा गतिनिवृतौ' ,'म्ना अभ्यासे' ,'दाण् दाने' ,'दृशिर प्रेक्षणे' , ठृगतिप्रापणयोःऽ,'सृगतौ' , भौवादिकौ । ठृ सृ गतौऽ इति जौहोत्यादिकयोस्तु ग्रहणं न भवति; शितोऽसम्भवात् । नन्वेशः सम्भव इति चेत् ? उक्तमत्र -'वर्णे यत्स्यातच्च विद्यातदादौ' इति । शितीति हि कर्मधारयः - शश्चासाविच्चेति ।'शद्लृ शातने' भूवादिः,'शद्लृ विशरणे' तुदादिः,'षद्लृविशरणगत्यवसादनेषु' । आद्यौदातो निपात्यत इति । यदि न निपात्येत, ततः'धातोः' इत्यन्तोदातत्वे सति शपा सहैकादेशे कृते ठेकादेश उदातेनोदातःऽ इति पिबतीति पदं मध्योदातमापद्येत, आद्यौदातं चेष्यते । वेगितायामिति । सञ्जातवेगयायामित्यर्थः । यद्वा - वेगिनो भावो वेगिता, तस्यां च सत्यां गतौ वर्तमानस्येत्यर्थः ॥