निसमुपविभ्यो ह्वः

1-3-30 निसमुपविभ्यः ह्वः धातवः आत्मनेपदम् कर्तरि

Sampurna sutra

Up

नि-सम्-उप-विभ्यः ह्वः आत्मनेपदम्

Neelesh Sanskrit Brief

Up

'नि' , 'सम्', 'वि' उपसर्गेभ्यः 'ह्वे' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।

Neelesh English Brief

Up

When any of the उपसर्गs - नि, सम्, वि - is attached to the verb 'ह्वे', it gets the प्रत्ययाः of आत्मनेपद.

Kashika

Up

अकर्मकादिति निवृत्तम्। अतः परं सामान्येनात्मनेपदविधानं प्रतिपत्तव्यम्। नि सम् उप वि इत्येवंपूर्वाद् ह्वयतेर्धातोरात्मनेपदं भवति। निह्वयते। संह्वयते। उपह्वयते। विह्वयते। अकर्त्रभिप्रायार्थोऽयमारम्भः। अन्यत्र हि ञित्त्वात् सिद्धमेवात्मनेपदम्॥ उपसर्गादस्यत्यूह्योर्वा वचनम्॥ निरस्यति, निरस्यते। समूहति, समूहते॥

Siddhanta Kaumudi

Up

निह्वयते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

ह्वेञ् (स्पर्धायां शब्दे च) अयं धातुः वस्तुतः उभयपदी अस्ति । परन्तु निस् / नित्/ सम् / उप / वि - एतेभ्यः अस्य आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - निह्वयते, संह्वयते, उपह्वयते, विह्वयते (सर्वेषामर्थः - 'आवाहनं करोति' इति) ।

Balamanorama

Up

<<निसमुपविभ्यो ह्वः>> - निसमुपवि । ह्वेञः कृतात्त्वस्य ह्व इति पञ्चम्यन्तम् । निह्वयते इति । संह्वयते । उपह्वयते । विह्वयते । अकत्र्रभिप्रायार्थमिदम् ।

Padamanjari

Up

निह्वयते इति। कथं पुनरत्रात्मनेपदम्, यावता'ह्वा' इत्याकारान्तादियं पञ्चमि, एकारान्तश्चायम्, न च विकृतिः प्रकृतिं संगृह्णाति? सत्यम्; आकारान्तात्पञ्चमी, न त्विदं प्रयोगस्थस्याकारान्तस्यानुकरणम्, किं तर्हि? धातुपाठेऽवस्थितैकारान्तस्य तस्यैव लक्षणवशादात्वम्। न चातुक्रियमाणरूपविनाशप्रसङ्गः; शास्त्रवासनया तस्यैव प्रतीतेः, यथा -'यस्येति च' इतीकाराकारयोः॥