8-4-9 पानं देशे पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे पूर्वपदात्
पाननकारस्य पूर्वपदस्थाद् निमित्तादुत्तरस्य देशाभिधाने णकार आदेशो भवति। पीयत इति पानम्। <<कृत्यल्युटो बहुलम्>> ३.३.११३ इति कर्मणि ल्युट्। क्षीरं पानं येषां ते क्षीरपाणा उशीनराः। मनुष्याभिधानेऽपि देशाभिधानं गम्यते। सुरापाणाः प्राच्याः। सौवीरपाणा बाह्लीकाः। कषायपाणा गान्धाराः। देश इति किम्? दाक्षीणां पानं दाक्षिपानम्॥
पूर्वपदस्थान्निमित्तात्परस्य पानस्य नस्य णत्वं स्याद्देशे गम्ये । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । सुरापाणाः प्राच्याः । पीयते इति पानम् । कर्मणि ल्युट् ॥
<<पानं देशे>> - पानं देशे ।पान॑मिति षष्ठर्थे प्रथमेत्यभिप्रेत्याह — पानस्येति । उशीनरा इति । देशविशेषे बहुवचनान्तोऽयम् । ननु पानशब्दस्य भावस्युडन्तत्वे क्षीरम्पानमिति कथं सामानाधिकरण्यमित्यत आह — पीयते इति ।
क्षीरं पानं येषामिति । कर्तरि षष्ठी । उशीनरादयः शब्दा देशद्वारेण पुरुषेषु वर्तन्त इति देशाभिधायिनो भवन्ति । दाक्षैइणां पानमिति । अत्रापि कर्मसाधन एव पानशब्दः ॥