8-4-8 वाहनम् आहितात् पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे पूर्वपदात्
आहितवाचि यत् पूर्वपदं तत्स्थाद् निमित्तादुत्तरस्य वाहननकारस्य णकार आदेशो भवति। इक्षुवाहणम्। शरवाहणम्। दर्भवाहणम्। वाहने यद् आरोपितमुह्यते तदाहितमुच्यते। आहितादिति किम्? दाक्षिवाहनम्। दाक्षिस्वामिकं वाहनमित्यर्थः॥
आरोप्य यदुह्यते तद्वाचिस्थान्निमित्तात्परस्य वाहननकारस्य णत्वं स्यात् । इक्षुवाहणम् । आहितात् किम् । इन्द्रवाहनम् । इन्द्रस्वामिकं वाहनमित्यर्थः । वहतेर्ल्युटि वृद्धिरिहैव सूत्रे निपातनात् ॥
<<वाहनमाहितात्>> - वाहनमाहितात् । वाहने आधीयते वहनाय यत्, नतु स्वयमेवारोढुं शक्नोति तदाहितम् । तदाह — आरोप्येति । निमित्तादिति । रेफषकारान्यतरस्मादित्यर्थः । वाहननकारस्येति । वाहनस्य यो नकारस्तस्येत्यर्थः । अनेन सूत्रे वाहनमिति षष्ठर्थे प्रथमेति सूचितम् । इक्षुवाहणमिति ।इक्षवो हि वहनाय परैरारीप्यन्ते, नतु स्वयमेवारोढुं शक्नुवन्ती॑ति तेषामाहितत्वं बोध्यम् । आरोपितेश्रुयुक्तं शकटादिवाहनमिति यावत् । इन्द्रवाहनमिति । ननु वहेः करणे ल्युटि कथमुपधादीर्घः, ञ्णित्प्रत्ययपरकत्वाऽभावादित्यत आह — वहेर्ल्युटीति ।
उह्यतेऽनेनेति वाहनमुशकटादि, करणे ल्युट्, अस्मादेव निपातनादुपधावृद्धिः । आहितमारोपितमुच्यते । यदा बाह्यं नारोपितं केवलं सन्निहितं तदान न प्राप्नोति, तदापीष्यते । यदाह - आहितोपस्थितयोरिति वक्तव्यमिति । न वा भूतकालस्याविवक्षितत्वात्, स्वामिभावनिवृत्तिपरायां चोदनायामाहितमिति भूतकालो न विवक्ष्यते, तेनाहितादाधायिष्यमाणाच्च भविष्यति । केवलं स्वस्वामिभावविवक्षायामेव न भवति, यथा प्रत्युदाहरणे उक्तम् - दाक्षिस्वामिकमित्यर्थ इति । दाक्ष्यादयोऽपि यदा वाह्यत्वेन विवक्ष्यन्ते न स्वामित्वेन, तदा णत्वं भवत्येव ॥