वा भावकरणयोः

8-4-10 वा भावकरणयोः पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे पूर्वपदात् पानं

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भावे करणे च यः पानशब्दस्तदीयस्य नकारस्य णकार आदेशो भवति वा पूर्वपदस्थाद् निमित्तादुत्तरस्य। क्षीरपाणं वर्तते, क्षीरपानम्। कषायपाणम्, कषायपानम्। सुरापाणम्, सुरापानम्। करणे — क्षीरपाणः कंसः, क्षीरपानः॥ वाप्रकरणे गिरिनद्यादीनामुपसंख्यानम्॥ गिरिणदी, गिरिनदी। चक्रणदी, चक्रनदी। चक्रणितम्बा, चक्रनितम्बा॥

Siddhanta Kaumudi

Up

पानस्येत्येव । क्षीरपाणम् । क्षीरपानम् ।<!गिरिनद्यादीनां वा !> (वार्तिकम्) ॥ गिरिणदी । गिरिनदी । चक्रणितम्बा । चक्रनितम्बा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वा भावकरणयोः>> - वा भावकरणयोः इत्येवेति । अनुवर्तत एवेत्यर्थः । भावे करणे च यः पानशब्दस्तस्य उक्तविषये णो वा स्यादित्यर्थः । आदेशार्थं वचनम् । क्षीरपानं क्षीरपाणमिति । क्षीरस्य पानमिति विग्रहः । भावे करणे वा ल्युट् । पानक्रिया, पानपात्रं वेत्यर्थः । गिरिनद्यादीनामिति । पूर्वपदस्थान्निमित्तात्परस्य उत्तरपदस्थस्य नस्य णो वेत्युपसङ्ख्यानमित्यर्थः । गिरेर्नदीति विग्रहः । चक्रनितम्बेति । चक्रमिव नितम्बो यस्याः सा इति विग्रहः ।

Padamanjari

Up

गिरिनद्यादीनामिति । संज्ञायां प्राप्ते, असंज्ञायामप्राप्ते - इत्युभयत्रविभाषेयमित्याहुः ॥