8-4-6 विभाषा ओषधिवनस्पतिभ्यः पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे पूर्वपदात् वनं
वनमित्येव। ओषधिवाचि यत् पूर्वपदं वनस्पतिवाचि च तत्स्थाद् निमित्तादुत्तरस्य वननकारस्य णकार आदेशो भवति विभाषा। ओषधिवाचिभ्यस्तावत् — दूर्वावणम्, दूर्वावनम्। मूर्वावणम्, मूर्वावनम्। वनस्पतिभ्यः — शिरीषवणम्, शिरीषवनम्। बदरीवणम्, बदरीवनम्॥ द्व्यक्षरत्र्यक्षरेभ्य इति वक्तव्यम्॥ इह मा भूत् — देवदारुवनम्। भद्रदारुवनम् ॥ इरिकादिभ्यः प्रतिषेधो वक्तव्यः॥ इरिकावनम्। तिमिरवनम्।
फली वनस्पतिर्ज्ञेयो वृक्षाः पुष्पफलोपगाः।
ओषध्यः फलपाकान्ता लता गुल्माश्च वीरुधः॥ इति॥
सत्यपि भेदे वृक्षवनस्पत्योरिहाभेदेन ग्रहणं द्रष्टव्यम्॥
एभ्यो वनस्य णत्वं वा स्यात् । दूर्वावणम् । दूर्वावनम् । शिरीषवणम् । शिरीषवनम् ।<!द्व्यच्त्र्यज्भ्यामेव !> (वार्तिकम्) ॥ नेह । देवदारुवनम् ।<!इरिकादिभ्यः प्रतिषेधो वक्तव्यः !> (वार्तिकम्) ॥ इरिकावनम् । मिरिकावनम् ॥
<<विभाषौषधिवनस्पतिभ्यः>> - विभाषौषधि । वनस्य णत्वमिति । ओषधिवनस्पतिभ्यः परस्य वनस्य यो नकारस्तस्य णत्वं वेत्यर्थः । ओषधिभ्यः उदाहरति — दूर्वावणमिति ।ओषध्यः फलपाकान्ताः॑ इत्यमरः । अथ वनस्पतिभ्य उदाहरति — शिरीषवणमिति । यद्यपि यः पुष्पैर्विना फलति स एव उदुम्बरादिर्वनस्पतिः,वानस्पत्यः फलैः पुष्पात्रैरपुष्पाद्वनस्पति॑रित्युक्तेः । शिरीषवृक्षश्चायं पुष्पफलवानेन न वनस्पतिस्तथापि वनस्पतिशब्देनाऽत्र वृक्षसामान्यं विवक्षितम् । अत एवसुपि युक्तवद्व्यक्तिवचने॑ इति सूत्रे भाष्येशिरीषवण॑मित्यत्र शिरीषे वनस्पतित्वं व्यवह्मतमिति दिक् । द्व्यच्त्र्यज्भ्यामेवेति ।परस्य वनस्य णत्वं वाच्य॑मिति शेषः । देवदारुवनमिति । प्रत्युदाहरणम् । इरिकादिभ्य इति । एभ्यः परस्य वनस्य णत्वप्रतिषेध इत्यर्थः ।
ठसंज्ञायामपिऽ इत्यनुवर्तते, तेन संज्ञाऽसंज्ञायोर्द्वयोरयं विकल्पः । अन्ये तु वृतावनुक्तत्वातस्याधिकारं नेच्छन्ति, तेषां संज्ञाविषये पुरगादिभ्य इति नियमत्वेन भवितव्यम् । यदि त्विष्यते यत्नान्तरमास्थेयम् । इह ये पुष्प्यन्ति फलन्ति च ते वानस्पत्याः; ये फलन्त्येव न पुष्प्यन्ति ते वनस्पतयः; उभयेऽपि ते वृक्षा इत्यभिधानविदः । ततश्च वनस्पतिशब्दोपादानेन णत्वं विकल्प्यमानं शिरीषवणमित्यत्रैव स्यात्, शिरीषादयो हि पुष्प्यन्ति फलन्ति च, तस्माद्वृक्षग्रहणं कर्तव्यम्, तदिदमाशङ्कते तावत् - फली नवस्पतिरित्यादि । फलमेव यस्य न पुष्पं स वनस्पतिःऊदुम्बरादि, पुष्पोपगा वेतसादयः, फलोपगा उदुम्बरादयः, उभयोपगा आम्रादयश्च वृक्षाः । अन्तात्यन्तादिसूत्रे'डो' न्यत्रापि दृश्यतेऽ इति वचनाडुः । फलपाकेन विनाशो यासा ता ओषध्यः - शाल्यादयः, लताप्रतानवत्यो मालत्यादयः, गुल्माःउह्रस्वस्कन्धास्तरवः, बहुकाण्डपत्राः वीरुध इति - यद्यपि वृक्षवनस्पत्योर्भेदः स्मर्यत इति शङ्कां परहरति - इहाभेदेन ग्रहणं द्रष्टव्यमिति । अत्र च'लुपि युक्तवद्व्यक्तिवचने' इत्यत्र भाष्यकारवचनं लिङ्गम् । उक्तं हि तत्र - 'व्यक्तिवचन इति किम्, शिरीषाणामदूरभवो ग्रामः शिरीषाः, तस्य वनं शिरीषवनमिति - वनस्पतित्वं नातिदिश्यते । यद्यतिदिश्येत,'विभाषौषधिवनस्पतिभ्यः' इति णत्वं प्रसज्येत' इति । यदि चोक्तो भेद इहाश्रितः स्यात्, शिरीषणामवनस्पतित्वाद्वनस्पतित्वणत्वयोः प्रसञ्जनं नोपपद्येत ॥