वनं पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः

8-4-4 वनं पुरगामिश्रकासिध्रकासारिकाकोटराग्रेभ्यः पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे पूर्वपदात् सञ्ज्ञायाम् अगः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पूर्वपदात् संज्ञायामिति वर्तते। पुरगा मिश्रका सिध्रका शारिका कोटरा अग्र इत्येतेभ्यः पूर्वपदेभ्य उत्तरस्य वननकारस्य णकारादेशो भवति संज्ञायां विषये। पुरगावणम्। मिश्रकावणम्। सिध्रकावणम्। शारिकावणम्। कोटरावणम्। अग्रेवणम्। सिद्धे सत्यारम्भो नियमार्थः — एतेभ्य एव परस्य वननकारस्य णकारादेशो भवति, नान्येभ्य इति। कुबेरवनम्। शतधारवनम्। असिपत्रवनम्॥

Siddhanta Kaumudi

Up

वनशब्दस्योत्तरपदस्य एभ्य एव णत्वं नान्येभ्यः । इह कोटरान्ताः पञ्च दीर्घविधौ कोटरादयो बोध्याः । तेषां कृतदीर्घाणां णत्वविधौ निर्देशो नियमार्थः । अग्रेशब्दस्य तु विध्यर्थः । पुरगावणम् । मिश्रकावणम् । सिध्रकावणम् । सारिकावणम् । कोटरावणम् । एभ्य एवेति किम् । असिपत्रवनम् । वनस्याग्रे अग्रेवणम् । राजदन्तादिषु निपातनात्सप्तम्या अलुक् । प्रातिपदिकार्थमात्रे प्रथमा । किंशुलुकागिरिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वनं पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः>> - तत्र णत्वविधिं दर्शयति — वनं पुरगा । वनमिति । षष्ठर्थे प्रथमा । इत्यभिप्रेत्याह-वनशब्दस्येति । एभ्य इति । पुरगा, मिश्रका, सिध्रका, सारिका, कोटर, अग्रे इत्येतेभ्य एव परस्य उत्तरपदस्य वनशब्दस्य यो नकारस्तस्य णत्वमित्यन्वयः । 'रषाभ्याम्' इत्यतो 'णो नः' इत्यनुवृत्तेः । सूत्रे 'अग्रे' इति सप्तम्यन्तस्यानुकरणम् । नन्विह भिन्नपदत्वात्अट्कुप्वा॑ङिति णत्वस्याऽप्राप्तेरपूर्वविध्यर्थकत्वावश्यकत्वादेभ्य एवेति कथं नियमलाभ इत्यत आह — इह कोटरान्ता इति । इह=णत्वविधावुपात्ताः पुरगा मिश्रका सिध्रका सारिका कोटर इत्येवं पञ्च शब्दाः, एव वनगिर्योरिति दीर्घाविधौ कोटरादिशब्देन विवक्षिता इत्यर्थः । ततः किमित्यत आह — तेषामिति । णत्वविधौ तावत्पुरगादिशब्दाः पञ्च दीर्घान्ता एव निर्दिष्टाः । दीर्घस्तु तेषां संज्ञायामेववनगिर्योरिति॑विहितः । एवंच एतेषामसंज्ञायां दीर्घाऽभावात्संज्ञायामेववनं पुरगे॑ति णत्वविधिरिति पर्यवस्यति । ततश्च तेषु वनशब्दनकारस्यपूर्वपदात्संज्ञायामगः॑ इत्येव णत्वे सिद्धे पुनरपि कृतदीर्घस्य पुरगादिपञ्चकस्य णत्वविधौ निर्देशो नियमार्थः संपद्यत इत्यर्थः । अग्रेशब्दस्य त्विति । णत्वविधावग्रेशब्दस्य निर्देशस्तु अग्रेवणशब्दे अपूर्वणत्वविध्यर्थ एव, न तु नियमार्थः । अग्रेवणशब्दस्याऽसंज्ञायामगः॑ इत्येव णत्वे सिद्धे पुनरपि कृतदीर्घस्य पुरगादिपञ्चकस्य णत्वविधौ निर्देशो नियमार्थः संपद्यत इत्यर्थः । अग्रेशब्दस्य त्विति । णत्वविधावग्रेशब्दस्य निर्देशस्तु अग्रेवणशब्दे अपूर्वणत्वविध्यर्थ एव, न तु नियमार्थः । अग्रेवणशब्दस्याऽसंज्ञात्वादिति भावः । न च पुरगावणशब्दे गकारव्यवधानात्पूर्वपदात्संज्ञाया॑मित्यस्य प्राप्त्यसंभवादत्र अपूर्वणत्वविध्यर्थमेव पुरगाग्रहणमिति वाच्यम्, 'अग' इति हि पञ्चमी, गकारान्तात्पूर्वपदात्परस्य णत्वं नेति लभ्यते । पुरगाशब्दस्त्वयमाकारान्त एव, न तु गकारान्त इति, तत्र अग इति निषेधाऽप्राप्त्यापूर्वपदात्संज्ञाया॑मित्येव सिद्धे, पुरगाग्रहणमपि नियमार्थमेवेति भावः । पुरगावणमित्यादयो नकरविशेषाणां संज्ञाः । असिपत्रवनमिति । नरकविशेषोऽयम् । अत्र संज्ञात्वेऽपि पूर्वपदात्संज्ञाया॑मिति णत्वं न भवति, एभ्य एवेति नियमादिति भावः । अग्रेवणमिति । वनशब्दस्य षष्ठन्तस्य अग्रेशब्देन सह षष्ठीसमास इति भावः । ननु तर्हिसुपो धात्वि॑ति सप्तम्या अपि सुक् स्यादित्यत आह — राजदन्तादिष्विति । अनेन वनशब्दस्य परनिपातोऽपिसूचितः । ननु सप्तम्यर्थप्राधान्यात्सप्तमी स्यादित्यत आह — प्रातिपदिकेति । सप्तम्यर्थस्य प्रातिपदिकेऽन्तर्भावादिति भावः । किंशुलुकादीनामुदाहरणमाह — किंशुलुकागिरिरिति ।अञ्जनागिरि॑रित्यप्युदाहार्यम् ।

Padamanjari

Up

'वनम्' इति षष्ठयाः स्थाने प्रथमा । उदाहरणे'वनगिर्योः संज्ञायाम्' इति पूर्वपदस्य दीर्घत्वम् । अग्रेवणमिति । षष्ठीसमासे राजदन्तादित्वाद्वनशब्दस्य परनिपातः,'हलदन्तात्' इति सप्तम्या अलुक्, अथ न संज्ञा ततो राजदन्तादिषु निपादनादलुक् । सिद्धे सतीत्यादि । पुरगादिष्वेतदुच्यते, अग्रेशब्दे त्वसंज्ञायां विध्यर्थमित्याहुः । एतेभ्य एव वननकारस्येति । ठेतेभ्यो वननकारस्यैवऽ इत्ययं तु नियमो न भवति; दीर्घीच्चारणात् । तद्धि दीर्घान्तेष्वयं नियगो भवेदिति । न च वनादन्यत्रोतरपदे दीर्घान्तत्वमेषां सम्भवति, यत्रास्य णत्वं दीर्घान्तेषु व्यावर्त्येत ॥