8-4-34 न भाभूपूकमिगमिप्यायीवेपाम् पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे उपसर्गाद् कृति
भा भू पू कमि गमि प्यायी वेप इत्येतेषामुपसर्गस्थाद् निमित्तादुत्तरस्य कृत्स्थस्य नकारस्य णकारादेशो न भवति। भा — प्रभानम्। परिभानम्। भू — प्रभवनम्। परिभवनम्। पू — प्रपवनम्। परिपवनम्। पूग्रहणेन पूञ्ग्रहणं द्रष्टव्यम्। पूङो हि भवत्येव णत्वम् — प्रपवणं सोमस्येति। कमि — प्रकमनम्। परिकमनम्। गमि — प्रगमनम्। परिगमनम्। प्यायी — प्रप्यायनम्। परिप्यायनम्। वेप — प्रवेपनम्। परिवेपनम्॥ ण्यन्तानां भादीनामुपसंख्यानं कर्तव्यम्॥ प्रभापनम्। परिभापनम्॥
एभ्यः कृन्नस्य णो न । प्रभानीयम् । प्रभवनीयम् ॥<!पूञ एवेह ग्रहणमिष्यते !> (वार्तिकम्) ॥ पूङस्तु प्रपवणीयः सोमः ।<!ण्यन्ताभादीनामुपसंख्यानम् !> (वार्तिकम्) ॥ प्रभापनीयम् ॥<!ख्शाञः शस्य यो वेत्युक्तम् !> (वार्तिकम्) ॥ णत्वप्रकरणोपरि तद्बोध्यम् । यत्वस्यासिद्धत्वेन शकारव्यवधानान्न णत्वम् । प्रख्यानीयम् ॥
<<न भाभूपूकमिगमिप्यायीवेपाम्>> - न भाभू । प्रभानीयमिति । इह 'कृत्यचः' इति प्राप्तं णत्वं नेति भावः । णत्वप्रकरमोपरीति । इदंचक्षिङः ख्या॑ञिति सूत्रे भाष्ये स्पष्टम् । प्रख्यानीयमिति । इह यत्वस्याऽसिद्धतया शकारेण व्यवधानात् 'कृत्यचः' इति णत्वं नेति भावः ।
पूग्रहणेन पूञोग्रहणमेष्टव्यमिति । इष्टिरेवेयम् । ण्यन्तानां चेति । ण्यन्तस्याधात्वन्तरत्वान्न प्राप्नोतीति वचनम्, किञ्च ण्यन्तेष्वस्य प्रवृतौ पक्षेऽनुवाददोषप्रसङ्गः;'णेविभाषा' इत्येव पक्षे निवृतेः सिद्धत्वात् ॥