वा निंसनिक्षनिन्दाम्

8-4-33 वा निंसनिक्षनिन्दाम् पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे उपसर्गाद् कृति

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उपसर्गादिति वर्तते। निंस निक्ष निन्द इत्येतेषां नकारस्योपसर्गस्थाद् निमित्तादुत्तरस्य वा णकारादेशो भवति। प्रणिंसनम्, प्रनिंसनम्। प्रणिक्षणम्, प्रनिक्षणम्। प्रणिन्दनम्, प्रनिन्दनम्। णोपदेशत्वादेतेषां नित्ये प्राप्ते विकल्पः॥

Siddhanta Kaumudi

Up

एषां नस्य णो वा स्यात् कृति परे । प्रणिंसितव्यम् । प्रनिंसितव्यम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वा निंसनिक्षनिन्दाम्>> - वा निंस ।कृत्यचः इत्यतः कृतीत्यनुवृत्तम् । अचेति च निवृत्तम् । तदाह — एषां नस्येति ।

Padamanjari

Up

'णिसि चुम्बने' 'णिक्ष रोपणे' , णिदि कुत्सायाम्ऽ णोपदेशत्वादेतेषां नित्ये णत्वे प्राप्ते विकल्पः ॥