षात् पदान्तात्

8-4-35 षात् पदान्तात् पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे

Kashika

Up

index: 8.4.35 sutra: षात् पदान्तात्


षकारात् पदन्तादुत्तरस्य नकारस्य णकारादेशो न भवति। निष्पानम्। दुष्पानम्। सर्पिष्पानम्। यजुष्पानम्। षातिति किम्? निर्णयः। पदान्तातिति किम्? कुष्णाति। पुष्णाति। पदे अन्तः पदान्तः इति सप्तमीसमासोऽयम्, तेन इह न भवति, सुसर्पिष्केण। सुयजुष्केण। शेषाद् विभाषा 5.4.154 इति कप्।

Siddhanta Kaumudi

Up

index: 8.4.35 sutra: षात् पदान्तात्


नस्य णो न । निष्पानम् । सर्पिष्पानम् । षात्किम् । निर्णयः । पदान्तात्किम् । पुष्णाति । पदे अन्तः पदान्तोऽयमिति सप्तमीसमासोऽयम् । तेनेह न । सुसर्पिष्केण ॥

Padamanjari

Up

index: 8.4.35 sutra: षात् पदान्तात्


निष्पानम्, दुष्पानमिति । ठिदुदुपधस्य चऽ इति विसर्जनीयस्य षत्वम्, अत्र'कृत्यचः' इति प्रसङ्गः । सर्पिष्पानमिति । कर्मणि षष्ठयाः समासः । यजुष्पानमिति ।'कर्तृकरणे कृता बहुलम्' इति समासः । उभयत्रापि'नित्यं समासे' नुतरपदस्थस्यऽ इति षत्वम्, अत्र'पानं देशे' 'वा भावकरणयोः' इति प्राप्तिः । पदे अन्त इति ।'सप्तमी' इति योगविभागात्समासः । सुसर्पिष्केणेति । शोभनं सर्पिरस्येति बहुव्रीहिः, कप्, ठिणः षःऽ इति षत्वम् । नायं पदे परतः पूर्वमवस्थितस्यान्तो भवति । पदस्य त्वन्तो भवति;'स्वादिषु' इति पदसंज्ञाया विधानात्, ततश्च षष्ठीसमासेऽत्रापि प्राप्नोति । कथं पुनर्ज्ञायते - सप्तमीसमासोऽयमिति ? अन्तग्रहणात्; अन्यथा वर्णग्रहणे सर्वत्र तदन्तविधिरित्येव षकारन्तात् पदादिति लभ्यते ॥