इजादेः सनुमः

8-4-32 इजादेः सनुमः पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे उपसर्गाद् कृति हलः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

हल इति वर्तते। तेनेह सामर्थ्यात् तदन्तविधिः। इजादेः सनुमो हलन्ताद् धातोर्विहितो यः कृत् तत्स्थस्य नकारस्योपसर्गस्थाद् निमित्तादुत्तरस्य णकारो भवति। प्रेङ्खणम्। परेङ्खणम्। प्रेङ्गणम्। परेङ्गणम्। प्रोम्भणम्। परोम्भणम्। सिद्धे सत्यारम्भो नियमार्थः — इजादेरेव सनुमः नान्यस्मादिति। प्रमङ्गनम्। परिमङ्गनम्। हल इत्यधिकाराद् ण्यन्ते नित्यं विध्यर्थमेतद् न भवति॥

Siddhanta Kaumudi

Up

सनुमश्चेद्भवति तर्हि इजादेर्हलन्ताद्विहितो यः कृत्तस्थस्यैव । प्रेङ्खणीयम् । इजादेः किम् । मगि सर्पणे । प्रमङ्गनीयम् । नुङ्ग्रहणमनुस्वारोपलक्षणार्थम् । अट्कुप्वाङ्- <{SK197}> इति सूत्रेऽप्येवम् । तेनेह न । प्रेन्वनम् । इह तु स्यादेव । प्रोम्भणम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<इजादेः सनुमः>> - इजादेः । 'णेर्विभाषा' इति निवृत्तम् । 'कृत्यच' इत्यनुवर्तते,हलश्चेजुपधा॑दित्यतो हल इति च । प्रकृतिविशेषणत्वात्तदन्तविधिः । तथा च सनुमो हलन्तादिजुपदात् परस्य कृन्नस्य णः स्यादिति लभ्यते । एवं च प्रेङ्खणीयमित्यादौ 'कृत्यचः' इत्येव सिद्धेरिदं नियमार्थमित्याह — सनुमश्चेदिति । कृत्स्थस्यैवेत्यनन्तरंणत्व॑मिति शेषः । प्रेङ्खणीयमिति । इखधातुरिदित्त्वात्सनुम् । 'इवि प्रीणने' इति धातोर्ल्युटि तस्याऽनादेशे प्रेन्वनमित्यत्रापि णत्वं स्यात्, सनुमोऽस्य इजादित्वाद्धलन्तत्वाच्चेत्यत आह — नुङ्ग्रहणमित्यादि । अनुस्वारश्च सर्व एव गृह्रते, न तु नुम्स्थानिक एव, अविशेषात् । तदाह — इह त्विति । प्रोम्भणमिति । इह उम्भधातुः स्वाभाविकानुस्वारवानेव, न तु नुम्स्थानिकानुस्वारवानिति भावः ।

Padamanjari

Up

हल इति वर्तत इति । प्रयोजनमुतरत्र वक्ष्यति । ननु तत्रादिविशेषणं हल्ग्रहणम्, अन्तविशेषणेन चेहार्थः । अत आह - तेनेति । इजादेर्हलादित्वासम्भवात्सामर्थ्यम् । प्रङ्खणमिति । ठिखि गत्यर्थःऽ, इदित्वान्नुम् । ननु चात्रानुस्वारे कृते नायं सनुम्को भवति, काममत्र स्थानिवद्भावात् सिद्ध्यति - प्रम्भणमिति, अत्र त्वादित एव नुम् भवतीत्यत्र न सिद्ध्यति, औत्पतिको हि तत्र नकारः; प्रेन्वनमित्यत्र च प्राप्नोति, यत्र नुमेवाविकृतः श्रूयते; तस्मादिहापि नुम्ग्रहणमनुस्वारोपलक्षणार्थं व्याख्येयम् । नक्षत्रदर्शनन्या येनेष्टविषये सर्वत्र भविष्यति, अनिष्टे च न भविष्यति, एवं च कृत्वा नियमार्थतोपपद्यते; अन्यथा प्रेन्वनमित्यत्र विध्यर्थता सम्भाव्येत । न च ठट्कुप्वाङ्नुम्व्यवायेऽपिऽ इत्येतेन सिद्धिः, तत्रापि नुम्ग्रहणस्यानुस्वारोपलक्षणत्वात् । ननु'कृत्यचः' इत्यनेनैव सिद्धे नार्थोऽनेन ? अत आह - सिद्धे सतीति । प्रमङ्गनमिति । मगिरपि गत्यर्थ एव । प्रमङ्कनमिति पाठे मण्डनार्थः । ननु च कैमर्थ्यान्नियमो भवति, विधेयं नास्तीति कृत्वा, इह चास्ति विधेयम्, किम् ? ण्यन्ताद्विभाषा प्राप्ता, तत्र नित्यं णत्वं विधेयम् ? अत आह - हलैत्यधिकारादिति । ननु चणिलोपे कृते ण्यन्तोऽपि हलन्तो भवति, ततः किम् ? सत्यपि हलधिकारे विध्यर्थता सम्भवति ? नैतदस्ति; विहितविशेषणस्याश्रयणात् । एतदेव ह्यभिप्रेत्य वृत्तिकारेणोक्तम् -'हलन्ताद्धातोर्यो विहितः' इति ॥