8-4-31 हलः च इजुपधात् पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे उपसर्गाद् कृति अचः णेः विभाषा
कृत्यच इति वर्तते। हलादिर्यो धातुरिजुपधस्तस्मात् परो यः कृत्प्रत्ययः तत्स्थस्य नकारस्याच उत्तरस्योपसर्गस्थाद् निमित्तादुत्तरस्य विभाषा णकारादेशो भवति। प्रकोपणम् प्रकोपनम्। परिकोपणम्, परिकोपनम्। हल इति किम्? प्रेहणम्। प्रोहणम्। इजुपधादिति किम्? प्रवपणम्। परिवपणम्। कृत्यच इति नित्ये प्राप्ते विकल्पः। अच इत्येवपरिभुग्नः। इजुपधस्य सर्वस्य हलन्तत्वादिह हल्ग्रहणमादिविशेषणम्॥
हलादेरिजुपधात्कृन्नस्याचः परस्य णो वा स्यात् । प्रकोपणीयम् । प्रकोपनीयम् । हलः किम् । प्रोहणीयम् । इजुपधात्किम् । प्रवपणीयम् ॥
<<हलश्च इजुपधात्>> - हलश्चेजुपधात् । हलन्तादिति नार्थः, इजुपधस्य हलन्तत्वाऽव्यभिचारात् । किंतु हलादेरितिविवक्षितम् । तदाह — हलादेरिजुपधादिति ।परस्ये॑ति शेषः । प्रोहणीयमित्यादिप्रत्युदाहरणे तु 'कृत्यच' इति नित्यमेव णत्वम् ।
प्रकोपणमिति ।'कुप क्रोधने' । प्रेहणम्, प्रोहणमिति । ठीह चेष्टायाम्ऽ, ठूह वितर्केअऽ। अत्र'कृत्यचः' इति णत्वं नित्यमेव भवति । कथं पुनरसत्यादिग्रहणे हलादिरिति लभ्यते ? अत आह - इजुपधस्येति । इजुपधस्य हलन्तत्वाव्यभिचारात् सामर्थ्यादादिविशेषणं हल्ग्रहणमित्यर्थः ॥