नश्च धातुस्थोरुषुभ्यः

8-4-27 नः च धातुस्थोरुषुभ्यः पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे छन्दसि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

नस् इत्येतस्य नकारस्य णकारादेशो भवति, धातुस्थाद् निमित्तादुत्तरस्योरुशब्दात् षुशब्दात् च छन्दसि विषये। धातुस्थात् तावत् — अग्ने॒ रक्षा॑ णः॒ (ऋ० ७.१५.१३)। शिक्षा॑ णो अ॒स्मिन् (ऋ० ७.३२.२६)। उरुशब्दात् — उ॒रु ण॑स्कृधि (ऋ० ८.७५.११)। षुशब्दात् — अ॒भी षु णः॒ सखी॑नाम् (ऋ० ४.३१.३)। ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ (ऋ० १.३६.१३)। अस्मदादेशोऽयं नस्शब्दो <<बहुवचनस्य वस्नसौ>> ८.१.२१ इति॥

Siddhanta Kaumudi

Up

धातुस्थात् । अग्ने रक्षा णः (अग्ने॒ रक्षा॑ णः) । शिक्षा णो अस्मिन् (शिक्षा॑ णो अ॒स्मिन्) । उरु णस्कृधि (उ॒रु ण॑स्कृधि) । अभीषु णः (अ॒भीषु णः॑) । मो षु णः (मो षु णः॑) ॥ इत्यष्टमोऽध्यायः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<उपसर्गादनोत्परः (उपसर्गाद् बहुलम्)>> - ॒अनोत्परः॑ इत्यपनीय तत्स्थानेबहुल॑मिति च कृत्वा भाष्यकार आहेत्यर्थः । तथाच फलितं सूत्रमाह — उपसर्गाद्बहुलं । निमित्तादिति । रेपाषकारात्मकादित्यर्थः । 'उपसर्गादनोत्परः' इति यथाश्रुते तु 'प्र णो नय' इत्यादावव्याप्तिः, 'प्र न #ः पूषा' इत्यादावतिव्याप्तिश्चेति भावः । प्रणस इति । प्रगता नासिका यस्येति विग्रहः ।उपसर्गाच्चे॑त्यच्, नासिकाया नस् ।उपसर्गाद्बहुल॑मिति णत्वमिति भावः । वेरिति । वेः परो यो नासिकाशब्दः स ग्रादेशं प्राप्नोतीति भावः । विग्र इति । विगता नासिका यस्येति विग्रहः, प्रकृतवार्तिकेन नासिकाशब्दस्य ग्रादेश इति भावः । विगता नासिका यस्येति विग्रहे अचि नसादेशे टापि च विनसेति भट्टिप्रयोगो न युज्यते, ग्रादेशस्यास्य नसादेशं प्रत्यपवादत्वादित्याक्षिपति — कथं तर्हीति । समाधत्ते — विगतयेति । विगता नासिका । प्रादिसमासः । अबहुव्रीहित्वान्न ग्रादेशः । किंतु टायांपाद्द॑न्निति नसादेशे विनसेति तृतीयान्तं रूपम् ।उपलक्षिते॑त्यध्याहार्यमिति भावः ।

Padamanjari

Up

धातौ तिष्ठतीति धातुस्थो रेफः, षकारश्च । ऊरु इति स्वरूपग्रहणम्, षु इति कृतषत्वस्य सुञो ग्रहणम्, न सप्तमीबहुवचनस्य; तेन इन्द्रो धता गृहेषु न इत्यत्र न भवति । नसिति नासिकादेशस्यास्मदादेशस्य च सामान्येन ग्रहणम्, ततोऽत्रास्मदादेश एव कार्यी; तस्यैव धातुस्थादिभ्यः परस्य सम्भवात्, उतरसूत्रे तूभयोः कार्यित्वम् । रक्षा ण इति । रक्षेति लोण्मध्यमपुरुषैकवचनान्तम्,'द्व्यचो' तस्तिङ्ःऽ इति दीर्घः । शिक्षा ण इति । शिक्षतिर्दानकर्मा च्छन्दसि । उरुणस्कृधीति । कृञो लोट्, सेर्हिः'श्रुशृणुपृकृवृभ्यश्च्छन्दसि' इति हेर्धिरादेशः,'कः करत्' इत्यादिना विसर्जनीयस्य रुत्वम् । अभीषु ण इति । ठिकः सुञिऽ इति दीर्घः । एवमूषु ण इत्यत्रापि ॥