वमोर्वा

8-4-23 वमोः वा पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे उपसर्गाद् हन्तेः अत्पूर्वस्य

Sampurna sutra

Up

index: 8.4.23 sutra: वमोर्वा


रषाभ्याम् उपसर्गात् हन्तेः अत्पूर्वस्य नः वमोः वा णः

Neelesh Sanskrit Brief

Up

index: 8.4.23 sutra: वमोर्वा


रेफयुक्त-उपसर्गात् परस्य हन्-धातोः नकारस्य वकारादौ मकारादौ प्रत्यये परे विकल्पेन णत्वं भवति ।

Neelesh English Brief

Up

index: 8.4.23 sutra: वमोर्वा


When the word हन् comes after an उपसर्ग containing a रेफ, and when the नकार of हन् is preceded by a ह्रस्व अकार, this नकार is optionally converted to णकार in presence of a प्रत्यय that begins with a वकार or a मकार.

Kashika

Up

index: 8.4.23 sutra: वमोर्वा


हन्तेः इति वर्तते। वकारमकारायोः परतः हन्तिनकारस्य उपसर्गस्थान् निमित्तादुत्तरस्य वा णकारादेशो भवति। प्रहण्वः, प्रहन्वः। परिहण्वः, परिहन्वः। प्रहण्मः, प्रहन्मः। परिहण्मः, परिहन्मः।

Siddhanta Kaumudi

Up

index: 8.4.23 sutra: वमोर्वा


उपसर्गस्थान्निमित्तात्परस्य हन्तेर्नस्य णो वा स्याद्वमयोः परयोः । प्रहण्मि-प्रहन्मि । प्रहण्वः-प्रहन्वः । हो हन्तेः -<{SK358}> इति कुत्वम् । जघान । जघ्नतुः । जघ्नुः ॥

Neelesh Sanskrit Detailed

Up

index: 8.4.23 sutra: वमोर्वा


रेफयुक्त-उपसर्गात् परस्य हन्-धातोः नकारस्य कदा णत्वं भवति अस्मिन् विषये हन्तेरत्पूर्वस्य 8.4.22 इत्यत्र नियमः उक्तः अस्ति, तस्य नियमस्य विकल्पः वर्तमानसूत्रेण दीयते ।

यदि रेफयुक्तात् उपसर्गात् परः हन्-धातुः प्रयुज्यते (यथा - प्र + हन्, परा + हन् आदयः), तर्हि तस्य नकारस्य तदा एव णत्वं भवति यदा नकारात् पूर्वम् ह्रस्वः अकारः विद्यते - इति हन्तेरत्पूर्वस्य 8.4.22 इत्यनेन एतत् स्पष्टीक्रियते । परन्तु यदि अग्रे वकारादिः उत मकारादिः प्रत्ययः विधीयते , तर्हि एतादृशं णत्वम् विकल्पेनैव भवति - इति अस्य सूत्रस्य आशयः ।

यथा, 'प्र + हन्' धातोः लट्लकारस्य उत्तमपुरुषद्विवचनस्य रूपसिद्धौ 'प्र + हन् + वः' इति स्थिते हन्तेरत्पूर्वस्य 8.4.22 इत्यनेन विहितं णत्वम् वर्तमानसूत्रसामर्थ्यात् विकल्पेन भवति, यतः अग्रे वकारादिः प्रत्ययः अस्ति । अतः, अत्र णत्वं कृत्वा 'प्रहण्वः', तथा च विना णत्वं 'प्रहन्वः' - उभयथा रूपाणि सिद्ध्यन्ति । एवमेव 'प्रहन्मः / प्रहण्मः', 'परिहन्वः / परिहण्वः' / 'परिहन्मः / परिहण्मः' - एतेषु रूपेषु अपि विकल्पः विधीयते ।

स्मर्तव्यम् - पूर्वसूत्रेण प्राप्तः विधिः वर्तमानसूत्रेण विकल्प्यते, अयः इयम् 'प्राप्तविभाषा' अस्ति । (प्राप्तविभाषायाः विषये न वेति विभाषा 1.1.44 इत्यत्र पाठितमस्ति ।)

Balamanorama

Up

index: 8.4.23 sutra: वमोर्वा


वमोर्वा - वमोर्वा ।उपसर्गादसमासेऽपी॑त्यतः उपसर्गादित्यनुवर्तते । 'रषाभ्यां नो णः' इति सूत्रमनुवर्तते ।हन्तेरत्पूर्वस्ये॑त्यतोहन्ते॑रिति । तदाह - उपसर्गस्यान्निमित्तादिति । णलि जहानेति स्तिते आह — हो हन्तेरिति ।अभ्यासाच्चे॑त्यपेक्षयाऽस्यान्तरङ्गत्वेन न्याय्यत्वादिति भावः । जघ्नतुरिति ।गमहने॑त्युपधालोपेहो हन्ते॑रिति कुत्वम् । थलि भारद्वाजनियमादिड्विकल्पे जहनिथ जहन् थ, इति स्थिते ञ्णित्प्रत्ययपरत्वाऽभावान्नकारपरत्वाऽभावाच्चहो हन्ते॑रिति कुत्वाऽप्राप्तौ ।

Padamanjari

Up

index: 8.4.23 sutra: वमोर्वा


पूर्वेण नित्ये प्राप्ते विकल्पः ॥