एति संज्ञायामगात्

8-3-99 एति सञ्ज्ञायाम् अगात् पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

एकारपरस्य सकारस्य मूर्धन्यादेशो भवतीण्कोरुत्तरस्यागकारात् परस्य संज्ञायां विषये। हरिषेणः। वारिषेणः। जानुषेणी। एतीति किम्? हरिसक्थम्। संज्ञायामिति किम्? पृथ्वी सेना यस्य स पृथुसेनो राजा। अगादिति किम्? विष्वक्सेनः। इण्कोरित्येव — सर्वसेनः।

Siddhanta Kaumudi

Up

सस्य मूर्धन्यः । हरिषेणः । एति किम् । हरिसक्थम् । संज्ञायां किम् । पृथुसेनः । अगकारात् किम् । विष्वक्सेनः । इण्कोरित्येव । सर्वसेनः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<एति संज्ञायामगात्>> - एति संज्ञायामगात् । एकारे परे सस्य षः स्यादित्यर्थः ।

Padamanjari

Up

ठपदान्तस्यऽ इत्यधिकारादप्राप्तं षत्वं विधीयते, तरबादय एव तावतद्धिताः सम्भवन्तीत्याह - तरप्तमबिति । सर्पिष्टरमिति । सर्पिर्जातेः प्रकर्षाभावेऽपि सहचारिणो गुणस्य गन्धादेः प्रकर्षे प्रत्ययः । चतुष्टय इति ।'जसः शी' । सर्पिष्ट इति । प्रतिप्रयोगे पञ्चम्यास्तसिः । आविष्ट।ल् इति । अव्ययात्यप्ऽ इत्यत्राविः शब्दात्'च्छन्दसि' इति वचनात्यप् । सर्पिः सादिति ।'विभाषा सातिः कार्त्स्न्ये' । ननु च'सात्पदाद्योः' इति प्रतिषेधादेवात्र षत्वं न भविष्यति ? इत्यत आह - प्रत्ययसकारस्येति । भिन्द्यौस्तराम्, च्छन्द्यौस्तरामिति । भिदिच्छिदिभ्यां लिङ्, झेर्जुसि यासुट्,'तिङ्श्च' इति तरप्,'किमेतिङ्व्ययघात्' इति आमुप्रत्ययः । आदिग्रहणं शक्यमकर्तुम्,'ति' इत्येव'यस्मिन्विधिस्तदादावल्ग्रहणे' , पुंसः प्रतिषेधः, पुंस्त्वम्, पुंस्ता ॥