8-3-98 सुषामादिषु च पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः
सुषामादिषु शब्देषु सकारस्य मूर्धन्यादेशो भवति। शोभनं साम यस्यासौ सुषामा ब्राह्मणः। दुष्षामा। निष्षामा। निष्षेधः। दुष्षेधः। सुशब्दस्य कर्मप्रवचनीयसंज्ञकत्वाद् निर्दुर्शब्दयोश्च क्रियान्तरविषयत्वादनुपसर्गत्वे सति पाठोऽयम्। <<सेधतेर्गतौ>> ८.३.१११ इति वा प्रतिषेधबाधनार्थः। सुषन्धिः। दुष्षन्धिः। निष्षन्धिः। सुष्ठु। दुष्ठु। तिष्ठतेरुणादिषु (प०उ० १.२५) एतौ व्युत्पाद्येते। गौरिषक्थः संज्ञायाम् (ग०सू० १८२)। ङ्यापोः संज्ञाछन्दसोर्बहुलम् ६.३.६३ इति पूर्वपदस्य ह्रस्वत्वम्। प्रतिष्णिका। प्रतिष्णाशब्दादयं कन् प्रत्ययः। जलाषाहम्। नौषेचनम्। दुन्दुभिषेवणम्।
सस्य मूर्धन्यः । शोभनं साम यस्य सुषामा । सुषन्धिः ॥
<<सुषामादिषु च>> - सुषामादिषु च ।स्पष्टम्
क्वचित्'सात्पदाद्योः' इति प्रतिषेधे प्राप्ते क्वचिच्चादित एवाप्राप्ते षत्वे सुषामादिषु मूर्धन्यो विधीयते । दुष्षामेति ।'विसर्जनीयशर्व्यवाये' पिऽ इत्यधिकारादत्र षत्वम् । सुशब्दस्येत्यादि । अत्रैवमभिसम्बन्धः - सुदुस्शब्दयोस्तु क्रियाविशेषविषयत्वादनुपसर्गत्वे सति - निषेधः, दुः षेध इति पाठोऽयमिति । तत्र सुशब्दस्य'सुः पूजायाम्' इति कर्मप्रवचनीयसंज्ञा, सा चोपसर्गसंज्ञाया बाधिका; आकडाराधिकारात् । निर्दुरोरप्युपसर्गत्वाभावः, क्रियान्तरविषयत्वात् । गमिक्रयाविषयौ हि तौ - निर्गतः सेधो निः षेधः, दुर्गतः सेधो दुष्षेध इति । तेन ठुपसर्गात्सुनोतिऽ इत्यादिना नैतेषु षत्वप्राप्तिः । एवं तावत्'षिधू हिंसासंराद्ध्योः' इत्यस्य घञि सेध इति रूपमित्याश्रित्योक्तम् । यदा तु'षिध गत्याम्' इत्यस्य घञन्तस्य रूपम् ? तदाप्याह - सेघतेर्गताविति प्रतिषेधबाधनार्थं चेति । सुषन्धिरित्यादौ ठुपसर्गे घोः किःऽ, समः षत्वम् । उणादिष्वेताविति ।'पृभिदिव्यधिधृषिभ्य' कुःऽ इति वर्तमाने ठपदुः सुपु स्थःऽ इति कुप्रत्ययः । गौरिषक्थ इति ।'बहुव्रीहौ सक्थ्यक्ष्णोः' इति षच् । प्रतिष्णकेति । प्रतिपूर्वात्स्नातेः ठातश्चोपसर्गेऽ इत्यङ्, तदन्ताट्टाप्, ततोऽज्ञातादिषु कः'के' णःऽ इति ह्रस्वत्वम्,'प्रत्ययस्थात्' इतीत्वम् । नौषेचनमिति । सिचेर्ल्युट् । दुन्दुभिषेवणमिति । सेवतेः, सीव्यतेर्वा ल्युट् । एतसंज्ञायामगादिति गणसूत्रम् । तद्व्याचष्टे - एकारपरस्येति । हरयः सेना अस्य हरिषेणः । परितः सेनास्य परिषेणः । पृथ्वी सेना यस्येति ।'स्त्रियाः पुंवत्' इति पूर्वपदस्य पुंवद्भावः । नक्षत्राद्वेति । पूर्वेण नित्ये प्राप्ते विकल्पः । चकारोऽनुक्तसमुच्चयार्थः, आकृतिगणतामस्य सूचयति, तदाह - अविहितलक्षण इति ॥