8-3-100 नक्षत्रात् वा पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः एति सञ्ज्ञायाम् अगात्
नक्षत्रवाचिनः शब्दादुत्तरस्य सकारस्य वा एति संज्ञायामगकाराद् मूर्धन्यो भवति। रोहिणीषेणः, रोहिणीसेनः। भरणीषेणः, भरणीसेनः। अगकारादित्येव — शतभिषक्सेनः। अविहितलक्षणो मूर्धन्यः सुषामादिषु द्रष्टव्यः॥
एति सस्य संज्ञायामगकारान्मूर्धन्यो वा । रोहिणीषेणः । रोहिणीसेनः । अगकारात्किम् । शतभिषक्सेनः । आकृतिगणोऽयम् ॥
<<नक्षत्राद्वा>> - एति संज्ञायामगात् । एकारे परे सस्य षः स्यादित्यर्थः ।
निस्तप्तं रक्षः, निस्तप्ता अरातय इत्यत्रेति । एवमपि कस्याञ्चिच्छाखायां पाठमुपलभ्य परिहार उच्यते । तैतिरीयकास्तु षत्वमेव पठन्ति ॥