अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः

8-3-97 अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अम्ब आम्ब गो भूमि सव्य अप द्वि त्रि कु शेकु शङ्कु अङ् गु मञ्जि पुञ्जि परमे बर्हिस् दिवि अग्नि इत्येतेभ्य उत्तरस्य स्थशब्दसकारस्य मूर्धन्यादेशो भवति। अम्बष्ठः। आम्बष्ठः। गोष्ठः। भूमिष्ठः। सव्येष्ठः। अपष्ठः। द्विष्ठः। त्रिष्ठः। कुष्ठः। शेकुष्ठः। शङ्कुष्ठः। अङ्गुष्ठः। मञ्जिष्ठः। पुञ्जिष्ठः। परमेष्ठः। बर्हिष्ठः। दिविष्ठः। अग्निष्ठः॥ स्थास्थिन्स्थृृणामिति वक्तव्यम्॥ स्व्येष्ठाः। परमेष्ठी। सव्येष्ठृसारथिः॥

Siddhanta Kaumudi

Up

स्थ इति कप्रत्ययान्तस्यानुकरणम् । षष्ठ्यर्थे प्रथमा । एभ्यः स्थस्य सस्य षः स्यात् । द्विष्ठः । त्रिष्ठः । इत ऊर्ध्वं कर्मणि सुपीति द्वयमप्यनुवर्तते । तत्राकर्मकेषु सुपीत्यस्य संबन्धः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जि- पुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः>> - अम्बाम्ब । अम्ब, आम्ब, गो, भूमि, सव्ये, अप, द्वि, त्रि, कुशे, कु , शङ्कु, अङ्गु, मञ्जि, पुञ्जि, परमे, बर्हिस्, दिवि, अग्नि — एषामष्टादशानां द्वन्द्वः । अम्बष्ठः, आम्बष्ठः, गोष्ठः,भूमिष्ठः । सव्येष्ठः । निपातनादलुक् । 'हलन्तात्सप्तम्याः' इति वा । अपष्ठः । एषु कतिपयेषुसात्पदाद्यो॑रिति निषेधः प्राप्तः । एवमग्रेऽपि । द्विष्ठ इति । द्वाभ्यां तिष्ठतीति विग्रहः । एवं त्रिष्ठः, कुशेष्ठः, कुष्ठः, शङ्कुष्ठ अङ्गुष्ठः मञ्जिष्ठः, पुञ्जिष्ठः । परमेष्ठः, निपातनादलुक्,हलदन्ता॑दिति वा । वर्षिष्ठः । दिविष्ठः । पूर्ववदलुक् । अग्निष्ठः । कप्रत्ययान्तस्येति । भूमिस्थितम् । इत ऊध्र्वमिति ।तुन्दशोकयो॑रित्यारभ्येत्यर्थः । सुपीत्यस्येति । नतु कर्मणीत्यस्य , असंभवादिति भावः ।

Padamanjari

Up

स्थशब्दसकारस्येति । एतेन'स्थ' इति सूत्रे स्वरूपग्रहणं प्रथमान्तमिति दर्शयति । यदि तु ठातो धातोःऽ इति तिष्ठतेराकारलोपं कृत्वा षष्ठ।ल निर्देशः स्यात्, तदा गोस्थानम्, भूमिस्थानमित्यादावपि षत्वं स्यादिति भावः । अम्बे तिष्ठत्यम्बष्ठः,'सुपि स्थः' इति कप्रत्ययः,'ङ्यापोः' इति ह्रस्वत्वम् । आम्बष्ठ इति । संज्ञेयं जनपदविशेषस्य । गोष्ठ इति ।'घञर्थे कविधानम्' इत्यधिकरणे कप्रत्ययः । भूमिष्ठादौ'सुपि स्थः' । सव्येष्ठ इति ।'हलदन्तात्सप्तम्याः' इत्यलुक् । यदि'स्थः' इति स्वरूपग्रहणम्, स्थास्थिन्स्थणां न प्राप्नोतीतिदमाह - स्थास्थिन्निति । स्थाशब्दः क्विबन्तः । सव्येष्ठा इति । ठीत्वे वकारप्रतिषेधःऽ इति वचनात् प्रत्ययलक्षणेनेत्वं न भवति ।'गमेरिनिः' इति वर्तमाने'परमे स्थः किच्च' इति किदिनिप्रत्ययः, परमेष्ठीशब्द इप्रत्ययान्तः बाहुलकादाकारलोपः । सव्ये तिष्ठति सव्येष्ठा सारथिः ॥