गवियुधिभ्यां स्थिरः

8-3-95 गवियुधिभ्यां स्थिरः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गवियुधिभ्यामुत्तरस्य स्थिरसकारस्य मूर्धन्यादेशो भवति। गविष्ठिरः। युधिष्ठिरः। गोशब्दादहलन्तादपि एतस्मादेव निपातनात् सप्तम्या अलुग् भवति॥

Siddhanta Kaumudi

Up

आभ्यां स्थिरस्य सस्य षः स्यात् । गविष्ठिरः । अत्र गवीति वचनादेवालुक् । युधिष्ठिरः । अरण्येतिलकाः । अत्र संज्ञायाम् <{SK721}>इति सप्तमीसमासः ।<!हृद्द्युभ्यां च !> (वार्तिकम्) ॥ हृदिस्पृक् । दिविस्पृक् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<गवियुधिभ्यां स्थिरः>> - तत्रआदोशप्रत्यययो॑रिति षत्वस्यसात्पदाद्यो॑रिति निषेधे प्राप्ते इदमारभ्यते — गवियुधिभ्यां स्थिरः । गवीसि युधीति च सप्तम्या अनुकरणम् । 'स्थिर' इति प्रथमा षष्ठर्थे । 'सहेः साडः सः' इत्यस्मात्स इति षष्ठन्तमनुवर्तते ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकृतम् । तदाह — आभ्यामिति । ननुअन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते॑ इति परिभाषयाऽवादेशात्पूर्वमेव ङेर्लुकि प्रवृत्ते हलन्तत्वाऽभावात्कथमिहाऽलुगित्यत आह — अत्र गवीति । युधिष्ठिर इति । युध्धातोर्भावे क्विपि युध्शब्दात्सप्तम्येकवचनम् । हलन्तत्वादलुक्, षत्वं च । पाण्डवस्य धर्मपुत्रस्य नामेदम् । तदेवं हलन्तादलुकं प्रापञ्च्य अदन्तादलुकमुदाहरति — अरण्येतिलका इति । ननु तिलकशब्दस्य शौण्डादिगणेऽभावात्कथं तेन सप्तमीसमास इत्यत आह — अत्र संज्ञायामिति । ह्मद्युभ्यां चेति । ह्मच्छब्दाद्दिव्शब्दाच्च सप्तम्या अलुग्वक्तव्य इत्यर्थः । असंज्ञार्थमिदम् । ह्मदिस्पृगिति ।पद्द॑न्निति ङौ ह्मदयस्य ह्मदादेशः । ह्मदयं स्पृशतीत्यर्थः । दिविस्पृगिति । दिवं स्पृशतीत्यर्थः । इहोभयत्रापि सप्तम्या अलुग्विधानबलादेव कर्माणि सप्तमीति भाष्यम् ।अमूर्धमस्तका॑दित्यनेन त्वलुङ्न सिध्यति, तत्र संज्ञायामित्यनुवृत्तेः ।

Padamanjari

Up

गविष्ठिरः, युधिष्ठिर इति ।'संज्ञायाम्' इति सप्तमीसमासः । गोशब्दादहलन्तादपीति । यद्यप्यवादेशे कृते सम्प्रति हलन्तो भवति, तथापि उत्पत्तिवेलायामहलन्तत्वान्निपातनमाश्रितम् ॥