8-3-94 छन्दोनाम्नि च पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः विष्टरः
index: 8.3.94 sutra: छन्दोनाम्नि च
विष्टारः इति निपात्यते। विपूर्वात् स्तृ इत्येतस्माद् धातोः छन्दोनाम्नि च 3.3.34 इत्येवं विहितो घञिति विष्टरः इत्यपि प्रकृते विष्टारः इति विज्ञायते। विष्टारपङ्क्तिः छन्दः। विष्टारो बृहतीछन्दः। छन्दोनाम्नि इति किम्? पटस्य विस्तारः।
index: 8.3.94 sutra: छन्दोनाम्नि च
विपूर्वात्स्तृणातेर्घञन्तस्य सस्य षत्वं स्याच्छन्दोनाम्नि । इति षत्वम् ॥
index: 8.3.94 sutra: छन्दोनाम्नि च
विष्टार इति निपात्यत इति । ननु च विष्टर इति प्रकृतम्, तत्कथं विष्टार इति निपात्यते ? अत आह - विपूर्वादिति । यदि त्विह च्छन्दोनाम्नि विष्टार इत्यात्वं क्रियेत, घञ्विधौ'च्छन्दोनाम्नि च' इति शक्यमकर्तुम्, इह वा'विष्टार' इत्युच्येत, तत्र वा'च्छन्दोनाम्नि' इति, को न्वत्र विशेषः, अपर आह - घञ्विवौ वाविति नानुवर्तते; तेन प्रस्तारपङ्क्तिः, संस्तारपङ्क्तिरित्यपि भवतीति ॥