8-3-93 वृक्षासनयोः विष्टरः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः
विष्टर इति निपात्यते वृक्ष आसने च वाच्ये। विपूर्वस्य स्तृणातेः षत्वं निपात्यते। विष्टरो वृक्षः। विष्टरमासनम्। वृक्षासनयोरिति किम् ? औलपिवाक्यस्य विस्तरः॥
अनयोर्विपूर्वस्य स्रः षत्वं निपात्यते । विष्टरो वृक्ष आसनं च । वृक्षे किम् । वाक्यस्य विस्तरः ॥
विस्तीर्यत इति विष्टरः,'प्रथमे वावशब्दे' इति घञि प्राप्ते । अस्मादेव निपातनादप् । रुढिशब्दत्वाद्वा पचाद्यचि व्युत्पाद्यः । उलपेन कृता टीका औलपी, सा वाक्यस्य विस्तरः, अशब्द इति प्रतिषेधादप् ॥