प्रष्ठोऽग्रगामिनि

8-3-92 प्रष्ठः अग्रगामिनि पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः

Kashika

Up

index: 8.3.92 sutra: प्रष्ठोऽग्रगामिनि


प्रष्ठः इति निपात्यते अग्रगामिनि अभिधेये। प्रतिष्ठते इति प्रष्ठः अश्वः। अग्रतो गच्छति इत्यर्थः। अग्रगामिनि इति किम्? प्रस्थे हिमवतः पुण्ये। प्रस्थो व्रीहीणाम्।

Siddhanta Kaumudi

Up

index: 8.3.92 sutra: प्रष्ठोऽग्रगामिनि


प्रतिष्ठत इति प्रष्ठो गौः । अग्रतो गच्छतीत्यर्थः । अग्रेति किम् । प्रस्थः ॥

Balamanorama

Up

index: 8.3.92 sutra: प्रष्ठोऽग्रगामिनि


प्रष्ठोऽग्रगामिनि - प्रष्ठोऽग्रगामिनि । प्रपूर्वात्स्थाधातोः 'आतश्चोपसर्गे' इति कप्रत्यये आतो लोपे प्रस्थशब्दः । स च अग्रगामिनि वाच्ये कृतषत्वो निपात्यते । इण्कवर्गाभ्यां परत्वाऽभावात्षत्वस्य न प्राप्तिः । प्रतिष्ठत इति । अग्रे गच्छतीत्यर्थः, उपसर्गवशात् । प्रष्ठो गौरिति । अग्रगामीत्यर्थः । एवं प्रष्ठोऽआ इत्यादि ।

Padamanjari

Up

index: 8.3.92 sutra: प्रष्ठोऽग्रगामिनि


प्रस्थे हिमवत इति ।'घञर्थे कविधानम्' इत्यधिकारणे कः ॥