8-3-91 कपिष्ठलः गोत्रे पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः
कपिष्ठल इति निपात्यते गोत्रविषये। कपिष्ठलो नाम स यस्य कापिष्ठलिः पुत्रः। गोत्र इति किम्? कपेः स्थलं कपिस्थलम्॥
कपिष्ठलो नाम यस्य कापिष्ठलिः पुत्रः । गोत्रे किम् । कपीनां स्थलं कपिस्थलम् ॥
गोत्रमिह प्रवराध्यायपठितं गृह्यते, तत्र च स्वसन्तानस्य व्यपदेशहेतुराद्यः पुरुषो गोत्रमित्युच्यते । पारिभाषिकग्रहणे तु कापिष्ठलिरित्यत्रैव स्याद्यत्र गोत्राभिधायी प्रत्ययः । यदि तु गोत्रं न षत्वस्य विषयेण निर्द्दिष्टम्, किं तर्हि ? दर्शनस्य गोत्रे यो दृष्टः कपिष्ठलशब्दः स साधुर्भवति, क्व ? यत्र तत्रेत्याश्रीयते, पारिभाषिकेऽपि गोत्रे न दोषः ॥