निनदीभ्यां स्नातेः कौशले

8-3-89 निनदीभ्यां स्नातेः कौशले पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

नि नदी इत्येताभ्यामुत्तरस्य स्नातिसकारस्य मूर्धन्यादेशो भवति कौशले गम्यमाने। निष्णातः कटकरणे। निष्णातो रज्जुवर्तने। नद्यां स्नातीति नदीष्णः। <<सुपि स्थः>> ३.२.४ इत्यत्र सुपीति योगविभागात् कप्रत्ययः। कौशल इति किम्? निस्नातः। नद्यां स्नातो नदीस्नात इति॥

Siddhanta Kaumudi

Up

आभ्यां स्नातेः सस्य षः स्यात्कौशले गम्ये । निष्णातः । शास्त्रेषु । नद्यां स्नातीति नदीष्णः । सुपि <{SK2916}> इति कः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<निनदीभ्यां स्नातेः कौशले>> - निनदीभ्यां । सस्य षः स्यादिति । 'सहे साडः सः' इत्यतः स इति षष्ठन्तमनुवर्तते,अपदान्तस्य मूद्र्धन्यः॑ इत्यप्यधिकृतमिति भावः । निष्णात इति । कुशल इत्यर्थः । नदीष्ण इति । नद्यां कुशलं स्नातीति विग्रहः । सुपीति क इति । 'सुपि स्थः' इत्यत्रसुपी॑ति योगविभागात्क इत्यर्थः ।

Padamanjari

Up

निष्णातः कटकरणे इति । तत्र कुशल इत्यर्थः । नदीष्ण इति । नदीस्नाने कुशल इत्यर्थः । कवयस्तु कुशलमात्रे प्रयुञ्जते । नदीस्नात इति ।'सप्तमी' इति योगविभागात् समासः ॥