सुविनिर्दुर्भ्यः सुपिसूतिसमाः

8-3-88 सुविनिर्दुर्भ्यः सुपिसूतिसमाः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सु वि निर् दुर् इत्येतेभ्य उत्तरस्य सुपि सूति सम इत्येतेषां सकारस्य मूर्धन्यादेशो भवति। सुपीति स्वपिः कृतसंप्रसारणो गृह्यते। सुषुप्तः। विषुप्तः। निःषुप्तः। दुःषुप्तः। सूतीति स्वरूपग्रहणम्। सुषूतिः। विषूतिः। निःषूतिः। दुःषूतिः। सम — सुषमम्। विषमम्। निःषमम्। दुःषमम्।

सुषेः षत्वं स्वपेर्मा भूद्विसुष्वापेति केन न ।

हलादिशेषान्न सुपिरिष्टं पूर्वं प्रसारणम्॥ १॥

स्थादीनां नियमो नात्र प्राक्सितादुत्तरः सुपिः।

अनर्थके विषुषुपुः षुपिभूतो द्विरुच्यते ॥ २॥

<<पूर्वत्रासिद्धीयमद्विर्वचने>> इति कृते षत्वे ततो द्विर्वचनम्॥

Siddhanta Kaumudi

Up

एभ्यः सुप्यादेः सस्य षः स्यात् । पूर्वं धातुरुपसर्गेण युज्यते । किति लिटि परत्वात्संप्रसारणे षत्वे च कृते द्वित्वम् । [(परिभाषा - ) पूर्वत्रासिद्धीयमद्विर्वचने] । सुषुषुपतुः । सुषुषुपुः । अकिति तु द्वित्वेऽभ्यासस्य संप्रसारणम् । षत्वस्यसिद्धत्वात्ततः पूर्वं हलादिः शेषः <{SK2179}> । नित्यत्वाच्च् । ततः सुपिरूपाभावान्न षः । सुसुष्वाप । सुस्वप्ता । अस्वपीत् । अस्वपत् । स्वप्यात् । सुप्यात् । सुषुप्यात् । अस्वाप्सीत् ।{$ {!1069 श्वस!} प्राणने$} । श्वसिति । श्वसिता । अश्वसीत्-अश्वसत् । श्वस्याताम् । श्वस्यास्ताम् । ह्म्यन्तक्षण -<{SK2299}> इति न वृद्धिः । अश्वसीत् ।{$ {!1070 अन!} च$} । अनिति । आन । अनिता । आनीत् । आनत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

सुपीत्यागन्तुक इकारः, न पुनरिका निर्देशः । तत्र'वचिस्वपि' इति लक्षणप्राप्तेन सन्प्रसारणेन धातोरेवायं निर्देशः स्यात्, ततश्च यत्रास्यैतद्रूपं तत्र षत्वमित्ययमर्थो न लभ्यते । तस्मादागन्तुकेनेकारेण प्रयोगस्थस्य कृतसम्प्रसारणस्य रूपस्येदमनुकरणम् । तदाह - सुपीति स्वपिः कृतसम्प्रसारणो गृह्यते इति । एतच्च'सुपि' इति निर्देशादेव लभ्यते, अन्यथा'वचिस्वपि' इतिवन्निर्दिशेत् । सूतीति स्वरूपग्रहणमिति । सूतेः क्तिन्नन्तस्य ग्रहणमित्यर्थः । समेत्यपि स्वरूपग्रहणमेव, न'षम ष्टम वैक्लव्ये' इति धातोर्ग्रहणम्; इक्शितपोरन्यतरस्याभावात् । अथ किमथ स्वपेः सुपि भूतस्य षत्वमुच्यते ? सुपेः षत्वं स्वपेर्मा भूत्, सुपेः षत्वमुच्यते, स्वपेर्मा भूदिति - विस्वप्नः, विस्वप्नमिति । विसुष्वापेति । अथ क्रियमाणेऽपि विकृतग्रहणे विसुष्वापेति केन न हेतुना केन विसुष्वापेत्यत्राभ्यासस्य षत्वं न भवति,'लिट।ल्भ्यासस्योभयेषाम्' इति सम्प्रसारणे कृते सुपिरूपस्य भावात् प्रागेव हलादिशेषात्, कृते वा तस्मिन्नेकदेशविकृतस्यानन्यत्वादस्ति प्रसङ्गः । हलादिशेषान्न सुपिः । द्विर्वचने कृते परत्वाद्धलादिः शेषेण यकारे निवृते वकारस्य सम्प्रसारणम्, ततश्च सुपिरूपस्य कदाचिदप्यभावात् षत्वाभावः । इष्ट्ंअ पूर्वं प्रसारणम् । उक्तं तत्रोभयेषां ग्रहणस्य प्रयोजनम् - परमपि हलादिशेषं बाधित्वा उभयेषां सम्प्रसारणमेव यथा स्यादिति, तेन सम्प्रसारणमेव पूर्वमिष्टम्, विशेषतश्चात्रेष्टम्, अन्यथा षकारवद्वकारोऽपि निवर्तेत । न ह्यत्र हेतुरस्ति - षकारो निवर्तते वकारोऽवतिष्ठत इति । एवं तर्हि स्थादिष्वेवाभ्यासस्येत्येतस्मादेव नियमादत्र षत्वं न भविष्यति ? स्थादीनां नियमो नात्र । किं कारणम् ? प्राविसतादुतरः सुपि ।'प्राक्सितात्' इति तत्र वर्तते, तेन प्राक्सिता ये धातवस्तेषां मध्ये स्थादिष्वेवाभ्यासस्य षत्वमिति नियमेन सुनोतिसुवतिस्यतिस्तोभतय एव निवर्त्यन्ते, सुपिस्त्वयं ततोऽवधेरुतरः । एवं तहि ठर्थवद्ग्रहणे नानर्थकस्यऽ इत्येषमेतस्य न भविष्यति, स्थाने हि द्विर्वचनेन समुदायोऽर्थवान्, अवयवौ त्वनर्थकौ, द्विष्प्रयोगेऽर्थप्रत्यायनस्यानावर्तनाद् द्वाभ्यामर्थः प्रत्याय्यत इत्येकस्यानर्थक्यमेव ? तदेतदाह - अनर्थके विषुषुपुः । यद्यनर्थकस्य ग्रहणं न भवति, विषुषुपुरिति न सिद्ध्यति ? नैषः दोषः; षुषिभूतो द्विरुच्यते । अयमभिप्रायः - पूर्वं धातुरुपसर्गेण युज्यते, तत्र द्विर्वचनात् परत्वात्सम्प्रसारणम्, परत्वादेव षत्वम्, कृतषत्वस्यैव तस्य द्विर्वचनमिति । ननु षत्वस्यासिद्धत्वात्पूर्वं द्विर्वचनमेव प्राप्नोति ? अत आह - पूर्वत्रासिद्धीयमद्विर्वचन इति ॥