अभिनिसः स्तनः शब्दसंज्ञायाम्

8-3-86 अभिनिसः स्तनः शब्दसञ्ज्ञायाम् पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः अन्यतरस्याम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अभिनिस् इत्येतस्मादुत्तरस्य स्तनतिसकारस्य मूर्धन्यादेशो भवत्यन्यतरस्यां शब्दसंज्ञायां गम्यमानायाम्। अभिनिष्टानो वर्णः, अभिनिस्तानो वर्णः। अभिनिष्टानो विसर्जनीयः, अभिनिस्तानो विसर्जनीयः। शब्दसंज्ञायामिति किम् ? अभिनिस्स्तनति मृदङ्गः। समास इत्यतः प्रभृति निवृत्तम्॥

Siddhanta Kaumudi

Up

अस्मात् स्तनेः सस्य मूर्धन्यः । अभिनिष्टानो वर्णः । शब्दसञ्ज्ञायां किम् । अभिनिःस्तनति मृदङ्गः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अभिनिस् इत्येतस्मादिति । एतेन समुदायो निमितं न प्रत्येकमिति दर्शयति । अभिनिष्टानो विसर्जनीय इति । तथा चापस्तम्बः -'द्व्यक्षरं चतुरक्षरं वा नाम पूर्वमाख्यातोतरं दीर्घाभिनिष्ठान्तं घोषवदाद्यन्तरन्तरस्थम्' इति । द्व्यक्षरं चतुरक्षरं वा नाम कर्तव्यम्, कीदृशम् ? नामपूर्वम्, नाम प्रातिपदिकमक्रियावाचि तत्पूर्वपदम्, आख्यातोतरं क्रियावाच्युतरपदं दीर्घात्परो योऽभिनिष्टानो विसर्जनीयस्तदन्तं दीर्घान्तं विसर्जनीयान्तं चेत्यन्ये । गोषवान्वर्ण आदिर्यस्य तद्धोषवदादि, अन्तरन्तस्थं यरलवानामन्यतमं मध्ये यस्य ततथोक्तमेवंभूतं नाम कर्तव्यम् । द्रविणोदा वरिवोदा इत्याद्यौदाहरणम् ॥