मातुःपितुर्भ्यामन्यतरस्याम्

8-3-85 मातुःपितुर्भ्याम् अन्यतरस्याम् पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः समासे स्वसा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

मातुर् पितुर् इत्येताभ्यामुत्तरस्य स्वसृशब्दस्यान्यतरस्यां मूर्धन्यादेशो भवति समासे। मातुःष्वसा, मातुःस्वसा। पितुःष्वसा, पितुःस्वसा। मातुःपितुरिति रेफान्तयोरेतद्ग्रहणम्। एकदेशविकृतस्यानन्यत्वात् विसर्जनीयान्तात् सकारान्तात् च षत्वं भवति। समास इत्येव — वाक्ये मा भूत् — मातुः स्वसेत्येव नित्यं भवति॥

Siddhanta Kaumudi

Up

आभ्यां स्वसुः सस्य षो वा स्यात्समासे । मातुःस्वसा । मातुःष्वसा । पितुःष्वसा । पितुःस्वसा । लुक्पक्षे तु ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<मातुःपितुर्भ्यामन्यतरस्याम्>> - पूर्वण नित्ये प्राप्ते विकल्पोऽयम् । अलुक्पक्षे विशेषमाह — मातुःपितुभ्र्यामन्यतरस्याम् ।मातृपितृभ्यामन्यतरस्याम् ।मातृपितृभ्यां स्वसे॑ति पूर्वसूत्रात्स्वसेत्यनुवर्तते । षष्ठर्थे प्रतमा । 'सहेः साडः सः' इति सूत्रात्स इति षष्टन्तं पदमनुवर्तते ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकृतम् । तदाह — आभ्यामिति । 'मातुः'पितु॑रिति षष्ठन्ताभ्यामित्यर्थः । समासे इति ।समासेऽङ्गुलेः सङ्गः॑ इत्यतस्तदनुवृत्तेरिति भावः ।मातुःष्वसा॒॑पितुःष्वसे॑ति अलुकि षत्वे रूपम् ।मातुःस्वसा॒॑पितुःस्वसे॑त्यलुकि षत्वाभावे रूपम् । लुक्पक्षे त्विति । 'विशेषो वक्ष्यते' इति शेषः ।

Padamanjari

Up

एकदेशविकृतस्यानन्यत्वाद्,'विसर्जनीयशर्व्यवाये' इत्यधिकाराच्च पूर्वेण नित्ये प्राप्ते विकल्पः । मातुः ष्वसेति ।'विभाषा स्वसृपत्योः' इति षष्ठ।ल अलुक् । रेफान्तयोरिदं ग्रहणमिति । तच्चोतरपदे स्पष्ट्ंअ पूर्वपदमपि तत्साहचर्याद्रेफान्तमेव । यद्येवम्, रेफस्य विसर्जनीये कृते तस्य'वा शरि' इति पक्षे सत्वे कृतेऽरेफान्तत्वान्न प्राप्नोति ? अत आह - एकदेशविकृतस्यानन्यत्वादिति । यदि तु सकारान्तयोर्ग्रहणं क्रियेत, विसर्जनीयान्तयोर्न स्यात् । विसर्जनीयान्तयोस्तु ग्रहणे भ्यामि परतो निर्देशो दुर्घटः स्यात् ॥