मातृपितृभ्यां स्वसा

8-3-84 मातृपितृभ्यां स्वसा पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः समासे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

मातृ पितृ इत्येताभ्यामुत्तरस्य स्वसृसकारस्य समासे मूर्धन्यादेशो भवति। मातृष्वसा। पितृष्वसा॥

Siddhanta Kaumudi

Up

आभ्यां परस्य स्वसुः सस्य षः स्यात्समासे । मातृष्वसा । पितृष्वसा । असमासे तु । मातुः स्वसा । पितुः स्वसा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<मातृपितृभ्यां स्वसा>> - मातृपितृभ्यां स्वसा । स्वसुरिति । सूत्रे षष्ठर्थे प्रथमेति भावः । मातृष्वसा पितृष्वसेति । लुक्पक्षे नित्यमेव षत्वम् । आदेश प्रत्ययसकारत्वाऽभावादप्राप्ते षत्वविधिरयम् । षत्वविधौ समासग्रहमांनुवृत्तेः फलं दर्शयति — असमासे त्विति । वाक्ये वैकल्पिकं षत्वमपि नास्तीत्यर्थः । *इति बालमनोरमायामलुक्समासः***अथ तद्धितेष्वपत्याधिकारप्रकरणम् । — — — — — — — — — — — —

Padamanjari

Up