8-3-83 ज्योतिरायुषः स्तोमः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः समासे
ज्योतिस् आयुस् इत्येताभ्यामुत्तरस्य स्तोमसकारस्य मूर्धन्यादेशो भवति समासे। ज्योतिष्टोमः। आयुष्टोमः। समास इत्येव — ज्योतिः स्तोमं दर्शयति॥
आभ्यां स्तोमस्य सस्य मूर्धन्यः स्यात्समासे । ज्यातिष्टोमः । आयुष्टोमः । समासे किम् । ज्योतिषः स्तोमः ॥
<<ज्योतिरायुषः स्तोमः>> - ज्योतिरायुषः स्तोमः । अत्र त्रिसूत्र्याम्-अङ्गुलेः सङ्गः, भीरोः स्थानं, ज्योतिषः स्तोमः,आयुषःस्तोम इत्याद्यर्थे प्रत्यासत्त्या तयोः पदयोः समासे सति उत्तरपदस्थस्य सस्य ष इत्यर्थः । तद्ध्वनयन् प्रत्युदाहरति — अङ्गुलेः सङ्ग इत्यादि । नेहइण्को॑रित्यनुवर्तते, व्याख्यानात् ।
ज्योतिष्टोम इति । अत्र'शर्व्यवाये' इत्यधिकारात् षत्वम् । एवमायुष्टोमेऽपि ॥