विभाषेटः

8-3-79 विभाषा इटः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः इणः षीध्वंलुङ्लिटां धः अङ्गात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

इणः परस्मादिट उत्तरेषां षीध्वंलुङ्लिटां यो धकारस्तस्य मूर्धन्यादेशो भवति विभाषा। लविषीढ्वम्, लविषीध्वम्। पविषीढ्वम्, पविषीध्वम्। लुङ् — अलविढ्वम्, अलविध्वम्। लिट् — लुलुविढ्वे, लुलुविध्वे। इण इत्येव — आसिषीध्वम्। अथेह कथं भवितव्यम् — उपदिदीयिध्वे? केचिदाहुः — इणन्तादङ्गादुत्तरस्येट आनन्तर्यं युटा व्यवहितमिति न भवितव्यं ढत्वेनेति। अपरेषां दर्शनम् — अङ्गादिति निवृत्तम्, इण इत्यनुवर्तते, ततश्च यकारादेव इणः परोऽनन्तर इडिति पक्षे भवितव्यं मूर्धन्येनेति॥

Siddhanta Kaumudi

Up

इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा मूर्धन्यः स्यात् । अयिषीढ्वम् । अयिषीध्वम् । आयिष्ट । आयिढ्वम् । आयिध्वम् ॥

Laghu Siddhanta Kaumudi

Up

इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा ढः। कामयिषीढ्वम्, कामयिषीध्वम्। कमिषीष्ट। कमिषीध्वम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<विभाषेटः>> - विभाषेटः ।इणः षीध्वंलुङ्लिटा धः॑ इत्यनुवर्तते ।अपदान्तस्ये॑त्यतो मूर्धन्य इति च । तदाह — इणः परो य इडित्यादि । इणन्तादङ्गादित्यर्थः । अयिषीढ्वमिति । लुङो ध्वमि च्लेः सिचि आटि वृद्धौ सिच इटिधि चे॑ति सलोपः । ध्वम इवर्णान्तादङ्गात्परत्वान्नित्ये प्राप्ते विकल्पः । अङ्गादिति । निवृत्तमिति केचित् ।

Padamanjari

Up

अत्रेण्ग्रहणमिटो विशेषणम्, सोऽपि षीध्वमादीनाम्, तेऽपि धकारस्येति दर्शयन्नाह - इणः परस्मादिट इत्यादि । तत्र षीध्वमो लिटश्च श्रुतिकृतमानन्तर्यम्, शास्त्रकृतं तु न सम्भवति, इटस्तद्भक्तत्वातद्ग्रहणेन ग्रहणात् । अत एवानयोः प्राप्तविभाषेयम् । तथैव लुङ्यप्यलविढ्वमादौ धि चेति लुप्ते सति सिच्सकारे । इणन्तमङ्गं ध्वमि जातमातः पूर्वस्य नित्यस्य विधेः प्रसङ्गः ॥ एवं च धातावनिणन्त इष्टमैधिढ्वमित्यादिषु नित्यढत्वम् । यदि त्विणन्ताद्विहितस्य ढत्वं तथा न ते ढत्वमधिढ्वमि स्यात् ॥ तथा - लिहिदोग्धिनहां ढत्वघत्वधत्वेषु सत्स्वपि । इणन्ताद्विहितः षीध्वमिति ढत्वं प्रसज्यते ॥ तथेणो लुङ् गादेशे इविहिते ध्वमि कर्मणि । अगाध्वं यूयमेतेनेत्यत्र ढत्वं प्रसज्यते ॥ एवं'ब्रूवो वचिः' वक्षीध्वमिति । इष्यते सर्वमेवैतदिति चेन्नाप्तवागिह । तस्मात्पाप्तविभाषैव सर्वत्रेयमिति स्थितम् ॥ तथा च तैतिरीयके'तान् रुद्रा अब्रुवन्प्रयूयमजनिढ्वम्' इति ढत्वं प्रयुक्तम् । लविषीढ्वम्, लविषीध्वमिति । अन्ये त्विटो विभाषाया वक्ष्यमाणत्वाद् गोबलीवर्दन्यायेन तद्व्यतिरिक्तमिणन्तमङ्गमिह गृह्यत इति वदन्त एधिध्वमित्यादौ ढत्वं नेच्छन्ति, तेषामप्यधिढ्वमित्यत्र भवत्येव, नत्सीध्वमित्यादौ च न भवति । आसिषीध्वमिति । ठास उपवेशनेऽ । कथं भवितव्यमिति । किमत्रानेन विकत्पेन भवितव्यम्, उत नेति प्रश्नार्थः । उपदिदीयध्व इति ।'दीङ् क्षये' , लिट्, ध्वमि क्रादिनियमादिट्, दीङे युडचि क्ङितिऽ इति युट् । युटा व्यवहितमिति । समुदायभक्ते हि युट् तमेव न व्यवदध्यात्, इट्ंअ तु व्यवदधात्येव । न भवितव्यं ढत्वेनेति । अनेन विकल्पेनेति भावः । पूर्वेण तु नित्यं प्राप्नोत्येव । अपरेषामिति । अस्मिन्पक्षे विकल्प एव भवति ॥