इणः षीध्वंलुङ्लिटां धोऽङ्गात्

8-3-78 इणः षीध्वंलुङ्लिटां धः अङ्गात् पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः

Sampurna sutra

Up

इणः अङ्गात् षीध्वम्-लुङ्-लिटामपदान्तस्य धः मूर्धन्यः

Neelesh Sanskrit Brief

Up

इण्-वर्णान्त-अङ्गात् परस्य 'षीध्वम्' इत्यस्य धकारस्य, लुङ्-लकारस्य तथा लिट्लकारस्य अपदान्त-धकारस्य मूर्धन्यादेशः (ढकारः) भवति ।

Kashika

Up

मूर्धन्य इति वर्तते। इणन्तादङ्गादुत्तरेषां षीध्वंलुङ्लिटां यो धकारस्तस्य मूर्धन्यादेशो भवति। च्योषीढ्वम्। प्लोषीढ्वम्। लुङ् — अच्योढ्वम्। अप्लोढ्वम्। लिट् — चकृढ्वे। ववृढ्वे। <<इण्कोः>> ८.३.५७ इति वर्तमाने पुनरिण्ग्रहणं कवर्गनिवृत्त्यर्थम्। पक्षीध्वम्। यक्षीध्वम्। षीध्वंलुङ्लिटामिति किम्? स्तुध्वे। अस्तुध्वम्। अङ्गादिति किम्? परिवेविषीध्वम्। अर्थवद्ग्रहणाद् (परि० १४) अप्येतत् सिद्धम्? तत् तु नाश्रितम्॥

Siddhanta Kaumudi

Up

इण्णन्तादङ्गत्परेषां षीध्वंलुङलिटां धस्य मूर्धन्यः स्यात् । एधांचकृढ्वे । एधांचक्रे । एधांचकृवहे । एधांचकृमहे । एधाम्बभूव । अनुप्रयोगसामर्थ्यादस्तेर्भूभावो न । अन्यथा हि क्रश्चानुप्रयुज्यत इति कृभ्विति वा ब्रूयात् ॥

Laghu Siddhanta Kaumudi

Up

इणन्तादङ्गात्परेषां षीध्वंलुङ्लिटां धस्य ढः स्यात्॥ एधाञ्चकृढ्वे। एधाञ्चक्रे। एधाञ्चकृवहे। एधाञ्चकृमहे। एधाम्बभूव। एधामास। एधिता। एधितारौ। एधितारः। एधितासे। एधितासाथे॥

Neelesh Sanskrit Detailed

Up

इण् वर्णात् परस्य (1) आशीर्लिङ्गलकारस्य षीध्वम् प्रत्ययस्य, (2) लुङ्लकारस्य लिट्लकारस्य च प्रत्यये विद्यामानस्य धकारस्य अनेन सूत्रेण मूर्धन्यादेशः भवति । अतः धकारस्य स्थाने सवर्णः ढकारः आदेशरूपेण आगच्छति । ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'इणः' इति स्पष्टमुक्तमस्ति, अतः अत्र 'इण्कोः' इत्यस्य अनुवृत्तिः न भवति । 2. 'इण्' इति प्रत्याहारः अस्ति । लण्-सूत्रस्य णकारेण सह अस्य ग्रहणं भवति ।

Balamanorama

Up

<<इणः षीध्वंलुङ्लिटां धोऽङ्गात्>> - इणः षीध्वं । षीध्वं लुङ्लिट् एषां द्वन्द्वः । 'धः' इति षष्ठएकवचनम् । 'इण' इत्यङ्गविशेषणम् । तदन्तविधिः ।अपदान्तस्य मूर्धन्य॑ इत्यधिकृतं । तदाह — इणन्तादित्यादिना । धकारस्य ढकारो मूर्धन्यः, घोषसंवारनादमहाप्राणप्रयत्नसाम्यात् । तदाह — एधांचकृञढ्व इति । उत्तमपुरुषैकवचने इटि एत्वे पूर्ववत् द्वित्वादौ कृते रूपमाह — एधांचक्रि इति । एधांचकृवह इति । लिटो वहिभावे एत्वे द्वित्वादि पूर्ववत् । एवं लोटि महिभावे द्वित्वादि पूर्ववत् । सर्वत्राऽसंयोगाल्लिट्कदिति कित्त्वाद्गुणाऽभावः । अथ भूधातोर्लिडन्तस्यानुप्रयोगे उदाहरति — एधांबभूवेति । एधाञ्चक्र इत्यनेन समानार्थकम्, अनुप्रयुज्यमानस्य भूधातोः क्रियासामान्यार्थकत्वात् । नन्वस्तेरनुप्रयोगे लिडादेशस्यार्धधातुकत्वादस्तेर्भूरित्यार्धधातुके विहितो भूभावुः कुतो न स्यादित्यत आह — अनुप्रयोगेति । कृञ्चानुप्रयुज्यत इत्यत्र प्रत्याहारमाश्रित्य कृभ्वस्तीनामनुप्रयोगविधिसामर्थ्यादस्धातोर्भूभावो नेत्यर्थः । तदेवोपपादयति — अन्यथेति । अनुप्रज्यमानस्याऽस्तेर्भूभावाभ्युपमे कृञ्चानुप्रयुज्यत इत्यनुप्रयोगविदौक्रस्चानुप्रयुज्यते॑ इति वा,कृभु चानुप्रयुज्यते॑ इति वा ब्राऊयात् । तावता एधांबभूवेति सिद्धेरित्यर्थः । यद्यपिकृ॑ञित्युतक्त्वौ लाघवमस्ति तथापि एकस्यैव भवतेरधिकस्य लाभाय कृञिति प्रत्याहारक्लेशो न कर्तव्य इति भाव । अत एवाऽत उत्सार्वधातुक इति सूत्रभाष्येऽनुप्रयोगे भूभावेन अस्तेरबाधनमिति भाष्यं सङ्गच्छते ।

Padamanjari

Up

इणन्तादङ्गादुतरेषामित्यादिना इणन्तमङ्गं षीध्वमादीनां विषेणम्, तेऽपि धकारस्येति दर्शयति । धकारस्य त्विणन्तमङ्गं विशेषणं न भवति - इणन्तादङ्गादुतरस्य धस्य स चेत् षीत्वमादीनामिति । तथा हि सति योषिढ्वमित्यादौ वचनसामर्थ्यात्षीशब्देन व्यवाय आश्रयणीयः स्यात् । अच्योढ्वमिति ।'धि च' इति सलोपः । इण्ग्रहणं कवर्गनिवृत्यर्थमिति । प्रकृतं हीण्ग्रहणं कवर्गेण सम्बद्धमिति तदनुवृतौ तस्याप्यनुवृत्तिः स्यात् । पक्षीध्वमिति ।'चो कुः' इति कुत्वे कृते ढत्वप्रसङ्गः । यक्षीध्वमिति । व्रश्चादिना षत्वे कृते'षढोः कः सि' इति कत्वम् । स्तुध्वे इति । टेरेत्वम् । अस्तुध्वमिति । लङ् । परिवेविषीध्वमिति ।'विष्लृ व्याप्तौ' जुहोत्यादिः स्वरितेत्,'णिजां त्रयाणां गुणः श्लौ' इत्यभ्यासस्य गुणः,'लिङ्ः सलोपो' नन्त्यस्यऽ इति सीयुटः सकारलोपः । अत्र धातुषकारस्य, ईध्वशब्दस्य च यः समुदायस्तदात्मकः षीध्वंशब्दोऽस्ति, न त्वसावङ्गादुतरः । षकारान्तं ह्यत्राङ्गम्, न तु वेवीत्येतावत् । चोदयति - अर्थवद्ग्रहणादपीति । परिहरति - एतत्विति । एतदर्थवतो ग्रहणमत्र नाश्रितम् । किं कारणम् ? न किञ्चित्, नाश्रितमित्येव ॥