स्फुरतिस्फुलत्योर्निर्निविभ्यः

8-3-76 स्फुरतिस्फुलत्योः निर्निविभ्यः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः उपसर्गात् वा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

स्फुरतिस्फुलत्योः सकारस्य निस् नि वि इत्येतेभ्य उत्तरस्य वा मूर्धन्यादेशो भवति। स्फुरति — निष्ष्फुरति, निस्स्फुरति। निष्फुरति, निस्फुरति। विष्फुरति, विस्फुरति। स्फुलति — निष्ष्फुलति, निस्स्फुलति। निष्फुलति, निस्फुलति। विष्फुलति, विस्फुलति॥

Siddhanta Kaumudi

Up

षत्वं वा स्यात् । निःष्फुस्फुरति । निःस्फुरति । स्फर इत्यकारोपधं केचित्पठन्ति । पस्फार ।{$ {!1391 स्फुड!} {!1392 चुड!} {!1393 व्रुड!} संवरणे$} ।{$ {!1394 क्रुड!} {!1395 भृड!} निमज्जन इत्येके$} ।{$ {!1396 गुरी!} उद्यमने$} । अनुदात्तेत् । गुरते । जुगुरे । गुरिता ।{$ {!1397 णू!} स्तवने$} । दीर्घान्तः । परिणूतगुणोदयः ॥ इतश्चत्वारः परस्मैपदिनः ॥ नुवति । अनुवीत् ।{$ {!1398 धू!} विधूनने$} । धुवति ।{$ {!1399 गु!} पुरीषोत्सर्गे$} । जुगुविथ । जुगुथ । गुता । गुष्यति । अगुषीत् । ह्रस्वादङात् <{SK2369}> । अगूताम् । अगुषुः ।{$ {!1400 ध्रु!} गतिस्थैर्ययोः$} । ध्रुव इति पाठान्तरम् । आद्यस्य ध्रुवतीत्यादि गुवतिवत् । द्वितीयस्तु सेट् । दुध्रुविथ । ध्रुविता । ध्रुविष्यति । ध्रूव्यात् । अध्रुवीत् । अध्रुविष्टाम् ।{$ {!1401 कुङ्!} शब्दे$} । दीर्घान्त इति कैयटादयः । कुविता । अकुविष्ट । ह्रस्वान्त इति न्यासकारः । कुता । अकुत । वृत् । कुटादयो वृत्ताः ।{$ {!1402 पृङ्!} व्यायामे$} । प्रायेण व्याङ्पूर्वः । रिङ् । इयङ् । व्याप्रियते । व्यापप्रे । व्यापप्राते । व्यापरिष्यते । व्यापृत । व्यापृषाताम् ।{$ {!1403 मृङ्!} प्राणत्यागे$} ॥

Laghu Siddhanta Kaumudi

Up

षत्वं वा स्यात्। निःष्फुरति, निःस्फुरति। ॥ {$ {! 31 णू !} स्तवने $} (धातुपाठे <{06.0132}>) ॥ परिणूतगुणोदयः। नुवति। नुनाव। नुविता॥॥ {$ {! 32 टुमस्जो !} शुद्धौ $} (धातुपाठे <{06.0151}>) ॥ मज्जति। ममज्ज। ममज्जिथ। मस्जिनशोरिति नुम्। <<मस्जेरन्त्यात्पूर्वो नुम्वाच्यः>> (वार्त्तिकम्)। संयोगादिलोपः। ममङ्क्थ। मङ्क्ता। मङ्क्ष्यति। अमाङ्क्षीत्। अमाङ्क्ताम्। अमाङ्क्षुः॥ {$ {! 33 रुजो !} भङ्गे $} (धातुपाठे <{06.0152}>) ॥ रुजति। रोक्ता। रोक्ष्यति। अरौक्षीत्॥ {$ {! 34 भुजो !} कौटिल्ये $} (धातुपाठे <{06.0153}>) ॥ रुजिवत्॥ {$ {! 35 विश !} प्रवेशने $} (धातुपाठे <{06.0160}>) ॥ विशति॥ {$ {! 36 मृश !} आमर्शने $} (धातुपाठे <{06.0161}>) ॥ आमर्शनं स्पर्शः॥ अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्॥ अम्राक्षीत्, अमार्क्षीत्, अमृक्षत्॥ {$ {! 37 षदॢ !} विशरणगत्यवसादनेषु $} (धातुपाठे <{06.0163}>) ॥ सीदतीत्यादि॥ {$ {! 38 शदॢ !} शातने $} (धातुपाठे <{06.0164}>) ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<स्फुरतिस्फुलत्योर्निर्निविभ्यः>> - स्फरतिस्फुल्योः ।मूर्धन्य॑इत्यधिकृतम् ।सिवादीनां वे॑त्यतो वेत्यनुवर्तते । तदाह - षत्वं वा स्यादिति । णू स्तवने इति । णोपदेशः । परिणूतेति ।श्रयुकः किती॑ति नेट् । कुङ् शब्दे । दीर्घान्त इति । ततश्चायं सेट् । पृङ् व्यायामे इति । ह्रस्वान्तोऽयमनिट् ।॒ऋद्धनोः स्ये॑ इति इटं मत्वाऽऽह - व्यापरिष्यते इति । मृङ्धातुरनिट् ।

Padamanjari

Up