परिस्कन्दः प्राच्यभरतेषु

8-3-75 परिस्कन्दः प्राच्यभरतेषु पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः उपसर्गात् वा स्कन्देः

Kashika

Up

index: 8.3.75 sutra: परिस्कन्दः प्राच्यभरतेषु


परिस्कन्दः इति मूर्धन्याभावो निपात्यते प्राच्यभरतेषु प्रयोगविषयेषु। पूर्वेन मूर्धन्ये प्राप्ते तदभवो निपात्यते। परिस्कन्दः। अन्यत्र परिष्कन्दः। अचि निपातनम्। अथ वा निष्ठातकारस्य लोपः। भरतग्रहणं प्राच्यविशेषणम्।

Siddhanta Kaumudi

Up

index: 8.3.75 sutra: परिस्कन्दः प्राच्यभरतेषु


पूर्वेण मूर्धन्ये प्राप्ते तदभावो निपात्यते । परिस्कन्दः । प्राच्येति किम् । परिष्कन्दः । परिस्कन्दः ।परेश्च <{SK2399}> इति विकल्पः । स्तम्भेः <{SK2272}> इति षत्वे प्राप्ते ॥

Balamanorama

Up

index: 8.3.75 sutra: परिस्कन्दः प्राच्यभरतेषु


परिस्कन्दः प्राच्यभरतेषु - परिस्कन्दः प्राच्यभरतेषु ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकारे इदं सूत्रम् । पूर्वेणेति ।परेश्चे॑ति पूर्वसूत्रम् । परेः परस्य स्कन्देः सस्य षो वा स्यादिति तदर्थः । तेन षत्वविकल्पे प्राप्त प्राच्यभरतेषु षत्वाऽभावो निपात्यत इत्यर्थः । परिस्कन्द इति । परिपूर्वात् स्कन्देर्निष्ठायास्तकारलोपः ।