8-3-73 वेः स्कन्देः अनिष्ठायाम् पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः उपसर्गात् वा
वेरुपसर्गादुत्तरस्य स्कन्देः सकारस्य मूर्धन्यो वा भवत्यनिष्ठायाम्। विष्कन्ता, विस्कन्ता। विष्कन्तुम्, विस्कन्तुम्। विष्कन्तव्यम्, विस्कन्तव्यम्। अनिष्ठायामिति किम्? विस्कन्नः॥
षत्वं वा स्यात् । कृत्येवेदम् । अनिष्ठायामिति पर्युदासात् । विष्कन्ता । विस्कन्ता । निष्ठायां तु । विस्कन्नः ॥
<<वेः स्कन्देरनिष्ठायाम्>> - वेः स्कन्दे । शेषपूरणेन सूत्रं व्याचष्टे — षत्वं वा स्यादिति ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकारात्सिवादीनां वे॑त्यतो वेत्यनुवृत्तेश्चेति भावः । वेः परस्य स्कन्देः सस्य षो वा स्यादनिष्ठायां परत इति फलितम् । ननु विस्कन्दतीत्यादौ कुतो न षत्वविकल्प इत्यत आह — कृत्येवेदमिति । पर्युदासस्यअब्राहृणमानये॑त्यादाविव सजातीयापेक्षत्वादिति भावः । विष्कन्त्ता विस्कन्त्तेति । तृचि रूपे । अषोपदेशत्वादप्राप्ते विभाषेयम् ।