8-3-72 अनुविपर्यभिनिभ्यः स्यन्दते अप्राणिषु पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः उपसर्गात् वा
index: 8.3.72 sutra: अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु
अनु वि परि अभि नि इत्येतेभ्यः उत्तरस्य स्यन्दतेः अप्राणिषु सकारस्य वा मूर्धन्यादेशो भवति। अनुष्यन्दते। विष्यन्दते। परिष्यन्दते। अभिष्यन्दते तैलम्। निष्यन्दते। अनुस्यन्दते। विस्यन्दते। परिस्यन्दते। अभिस्यन्दते। निस्यन्दते। अप्राणिषु इति किम्। अनुस्यन्दते मत्स्य उदके। प्राण्यप्राणिविषयस्य अपि स्यन्दतेः अयम् विकल्पो भवति, अनुष्यन्देते मत्स्योदके, अनुस्यन्देते। अप्राणिषु इति पर्युदासोऽयम्, न प्रसज्यप्रतिषेधः।
index: 8.3.72 sutra: अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु
एभ्यः परस्याप्राणिकर्तृकस्य स्यन्दतेः सस्य षो वा स्यात् । अनुष्यन्दते अनुस्यन्दते वा जलम् । अप्राणिषु किम् । अनुस्यन्दते हस्ती । अप्राणिष्विति पर्युदासान्मत्स्योदकेअनुष्यन्देते इत्यत्रापि पक्षे षत्वं भवत्येव । प्राणिषु नेत्युक्तौ तु न स्यात् ।{$ {!762 कृपू!} सामर्थ्ये$} ॥
index: 8.3.72 sutra: अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु
अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु - अनुविपर्यभिनि । एभ्य इति । अनु वि परि अभि नि इत्येतेभ्य इत्यर्थः । सस्येति । 'सहेः साडः सः ' इत्यतः स इति षष्ठन्तस्यानुवृत्तेरिति भावः । षो वा स्यादिति ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकारादिति भावः । ननुमत्स्योदके अनुष्यन्देते॑ इत्यत्र कतं षत्वं, प्राणिकर्तृकत्वस्यापि सत्त्वादित्यत आह — अप्राणिष्विति पर्युदासादिति ।प्राणिकर्तृकस्य ने॑ति न प्रतिषेधः, येनात्र प्राणिकर्तृकत्वस्यापि सत्त्वात् षत्वं न स्यात् । किन्तु प्राणिभिन्नकर्तृकस्येति पर्युदास आश्रीयते । एवं च प्राण्यप्राणिकर्तृकस्यापि अप्राणिकर्तृकत्वाऽनपायादिह षत्वं निर्बाधमिति भावः । कृपू सामर्थ्ये इति । सामर्थ्यं — कार्यक्षमीभवनम् । ऊदित्त्वाद्वेट्कोऽयम् । ऋदुपधः ।
index: 8.3.72 sutra: अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु
'स्यन्दू प्रस्रवणे' अनुदातेत् । अनुस्यन्देते मत्स्योदके इति । मत्स्यश्चोदक च मत्स्योदके ।'जातिरप्राणिनाम्' इत्यनेन यत्र सर्वाण्यवयवपदान्यप्राणिवाचीति, तत्रैकवद्भावः; इह तु मत्स्यशब्दस्य प्राणिवाचित्वादेकवद्भावाभावः । अत्राप्राणिष्विति प्रसज्यप्रतिषेधः, तेन प्राण्यप्राणिसमुदायेऽपि प्राण्यस्तीति प्रतिषेधो भवति । अन्ये तु पर्युदासं मन्यमाना भवितव्यमेवात्र षत्वेनेत्याहुः । इह पर्यादिग्रहणं शक्यमकर्तुम्, एवं वक्ष्यामि - ठन्वभिभ्यां चऽ इति, चकारात् परिनिविभ्यश्चेति ॥