सिवादीनां वाऽड्व्यवायेऽपि

8-3-71 सिवादीनां वा अड्व्यवाये अपि पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः उपसर्गात् परिनिविभ्यः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अनन्तरसूत्रे सिवुसहसुट्स्तुस्वञ्जाम् ८.३.७० इति सिवादयः। सिवादीनामड्व्यवायेऽपि परिनिविभ्य उत्तरस्य सकारस्य वा मूर्धन्यो भवति। तथा चैवोदाहृतम्॥

Siddhanta Kaumudi

Up

परिनिविभ्यः परेषां सिवादीनां सस्य षो वा स्यादड्व्यवायेऽपि । पर्यसहत । पर्यषहत ।{$ {!853 रमु!} क्रीडायाम्$} । रेमे । रेमिषे । रन्ता । रंस्यते । रंसीष्ट । अरंस्त ॥ अथ कसन्ताः परस्मैपदिनः ।{$ {!854 षद्लृ!} विशसणगत्यवसादनेषु$} ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<सिवादीनां वाऽड्व्यवायेऽपि>> - सिवादीनां । 'परिनिविभ्य' इति सूत्रादुत्तरमिदं सूत्रम् । तदाह — परिनिविभ्यः परेषामिति ।सिवुसहसुट्स्तुस्वञ्जा॑मिति शेषः । रमु इति । नाऽयमुदिदिति माधवः । केचित्तु उदितं मत्वाउदितो वे॑ति क्त्वायामिड्विकल्पमिच्छन्ति । अनिट्कोऽयम् । लिटि क्रादिनियमादिट् । तदाह — रेमिषे इति । अथ कसन्ता इति । 'कस गतौ' इत्येतत्पर्यन्ता इत्यर्थः । षद्लृधातुः षोपदेशोऽनिट्कश्च ।

Padamanjari

Up

सिवादयः प्रत्यासतेः पूर्वसूत्रे सन्निविष्टा गृह्यन्ते । अभ्यत्रविभाषेयम्, स्तुस्वञ्ज्योः'प्राक् सिताद्' इति प्राप्ते, इतरेषामप्राप्ते ॥