परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम्

8-3-70 परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः प्राक् सितात् अड्व्यवाये अपि उपसर्गात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

परि नि वि इत्येतेभ्य उपसर्गेभ्य उत्तरेषां सेव सित सय सिवु सह सुट् स्तु स्वञ्ज इत्येतेषां सकारस्य मूर्धन्य आदेशो भवति। परिषेवते। निषेवते। विषेवते। पर्यषेवत। न्यषेवत। व्यषेवत। परिषिषेविषते। निषिषेविषते। विषिषेविषते। सित — परिषितः। निषितः। विषितः। सय — परिषयः। निषयः। विषयः। सिव् — परिषीव्यति। निषीव्यति। विषीव्यति। पर्यषीव्यत्। न्यषीव्यत्। व्यषीव्यत्। पर्यसीव्यत्। न्यसीव्यत्। व्यसीव्यत्। सह — परिषहते। निषहते। विषहते। पर्यषहत। न्यषहत। व्यषहत। पर्यसहत। न्यसहत। व्यसहत। सुट् — परिष्करोति। पर्यष्करोत्। पर्यस्करोत्। स्तु — परिष्टौति। निष्टौति। विष्टौति। पर्यष्टौत्। न्यष्टौत्। व्यष्टौत्। पर्यस्तौत्। न्यस्तौत्। व्यस्तौत्। स्वञ्ज — <<दंशसञ्जस्वञ्जाम्०>> ६.४.२५ इति नलोपः। परिष्वजते। निष्वजते। विष्वजते। पर्यष्वजत, पर्यस्वजत। पूर्वेणैव सिद्धे स्तुस्वञ्जिग्रहणमुत्तरार्थम्, अड्व्यवाये विभाषा यथा स्यात्॥

Siddhanta Kaumudi

Up

परिनिविभ्यः परेषामेषां सस्य षः स्यात् । निषेधति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम्>> - परिनिविभ्यः । सेवेत्यकार उच्चारणार्थः ।षेवृ सेवाया॑मिति धातोग्र्रहणम् । परिषेवते । निषेवते । विषेवते । सितेत्यनेन षिञ् बन्धन इति क्तान्तस्य ग्रहणम् । अस्यैव धातोरेरजन्तो वा पचाद्यजन्तो वा सयशब्दः । विषितः । विषयः । षिवु तन्तुसन्ताने । परिषीव्यति । षह मर्षणे । परिषहते । सुट् आगमः । परिष्करोति । स्तुस्वञ्जो॑रुपसर्गात्सुनोती॑त्येव सिद्धेसिवादीनां वे॑ति विकल्पार्थं पुनर्वचनम् ।

Padamanjari

Up

सेवतिर्भूवादिष्वनुदातेत् । सित इति ।'षिञ् बन्धने' क्तान्तः । सय इति । स एवैरजन्तः,'षिवु तन्तुसन्ताने' दिवादिः,'षह मर्षणे' अनुदातेत् । सुडिति ।'सुट् कात्पूर्वः' इत्यस्य ग्रहणम् । स्तुस्वञ्जी उक्तार्थौ, तयोः ठुपसर्गात्सुनोतिऽ इत्यादिनैव सिद्धे पर्यादिपूर्वयोरुतरसूत्रेणाड्व्यवाये विकल्पार्थं वचनम् ॥