वेश्च स्वनो भोजने

8-3-69 वेः च स्वनः भोजने पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः प्राक् सितात् अड्व्यवाये अपि उपसर्गात् अवात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वेरुपसर्गादवाच्चोत्तरस्य भोजनार्थ स्वनतेः सकारस्य मूर्धन्यादेशो भवति। विष्वणति। व्यष्वणत्। विषष्वाण। अवष्वणति। अवाष्वणत्। अवषष्वाण। अभ्यवहारक्रियाविशेषोऽभिधीयते, यत्र स्वननमस्ति। भोजन इति किम्? विस्वनति मृदङ्गः॥

Siddhanta Kaumudi

Up

व्यवाभ्यां स्वनतेः सस्य षः स्याद्भोजने ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वेश्च स्वनो भोजने>> - वेश्च । अवादित्यनुकर्षणार्थश्चकारः । तदाह — व्यवाभ्यामिति । विष्वणति । अवष्वणति । सशब्दं भुङ्क्ते इत्यर्थ- । अट्कुप्वाङिति णत्वम् ।

Padamanjari

Up

उदाहरणेषु स्वार्थपरित्यागेन भोजनमात्रे स्वनिर्वर्तत इति शङ्कामपनयति - अभ्यवहारक्रियाविशेष इति । तमेव विशेषं दर्शयति - यत्रेति । विष्वणतीति । सशब्दं भुङ्क्त इत्यर्थः ॥